________________
55 आवश्यकहारिभद्रीया स्त्यनुचित इत्यर्थः, यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः-साधूनामनाच. रणीयः, यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः-मनागपि मनसाऽपिन प्रार्थनीय इति,किंविषयोऽयमतिचार इत्याह'णाणे दंसणे चरित्ते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे-'सए'त्ति शुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, 'सामाइय(ए)'त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसामायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीण'मित्यादि, तिसृणां गुप्तीनां, तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णा कषायाणां-क्रोधमानमायालोभानां, पश्चानां महाव्रतानां-प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथिवीकायिकादीनां, सप्तानां पिण्डैपणानांअसंसृष्टादीनां, ताश्चेमाः-'संसहमसंसट्टा उद्धड तह होइ अप्पलेवा य । उग्गहिआ पग्गहिआ उज्झिय तह होइ सत्तमिआ॥१॥'
व्याख्या-तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, 'असंसढे हत्थे असंसट्टे मत्ते, अखरडियमिति वुत्तं भवई' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, 'संसटे हत्थे संसढे मत्ते, खरडिइत्ति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोज जातमुद्धतं, ततः 'असंसहे हत्थे संसहे मत्ते असंसठे वा मत्ते संसहे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णत
असंमृष्टो हस्तोऽसंसृष्टं मानं अखरण्टितं इत्युक्तं भवति. २ संसृष्टो हस्तो संसृष्टं मानं खरपिटतं इत्युक्तं भवति. ३ असंसृष्टो हस्तो संमृष्टं मात्रं असं सृष्टं वा मात्र संसृष्टो हस्तो * नेन प्र.. श्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातमभ्युद्यतेन करादिना प्रगृहीतं योजनजातं भो(भुक्त्वा वा स्वहस्तादिना तगृहत इति भावना पष्ठी, उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकासन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैत्रम्भूता एव, नवरं चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निर्लेपं विज्ञेयमिति, अष्टानां प्रवचनमातॄणां, ताश्चाष्टौ प्रवचनमातरः-तिस्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम्-“समिओ णियमा गत्तो गत्तो समियत्तणमि भइयवो। कुसलवइमदीरितो जं वयगुत्तोऽवि समिओऽवि॥१॥" नवानां ब्रह्मचर्यगुप्तीनां-वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगाः-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां-व्यापाराणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च देवसिकातिचारस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमाह, मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्य. मित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा
१ समितो नियमाद्गुप्तो गुप्तः समितत्वे भक्तव्यः । कुशलवाचमुदीरयन् यद्वचोगुप्तोऽपि समितोऽपि ॥ १॥ पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ १२७१ ॥ व्याख्या-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकरणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम् , अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकधनायां च प्रतिक्रमणमिति गाथार्थः ॥ १२७१ ॥ अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषो तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामायिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेप्वप्यायोज्यं, चत्वारो मझलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽह___ इच्छामि पडिक्कमि इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयकमणे हरियकमणे ओसाउत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणे जे मे जीवा विराहिया एगिदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइआ संघट्टिआ परिआविआ किलामिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ (सू०)
अस्य व्याख्या-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुम् , ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org