________________
52 आवश्यकहारिभद्रीया व्याख्या-एते ते 'पापाहयः' पापसाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव 'जगद' भुवनं 'कलकलायति' भवजलधौ कथयतीति गाथार्थः ॥ १२६२ ॥ एएहिं जो खज्जइ चउहिवि आसीविसेहि पावेहिं । अवसस्स नरयपडणं णत्थि सि आलंबणं किंचि ॥१२६३ ।।
व्याख्या-एभिर्य एव खाद्यते चतुर्भिरपि 'आशीविषैः' भुजङ्गैः पापैः' अशोभनैः तस्य अवशस्य सतः नरकपतनं भवति, 'नास्ति' न विद्यते 'से' तस्यालम्बनं किञ्चिदू येन न पततीति गाथार्थः ॥ १२६३ ॥ एवमभिधायैते मुक्ताः।सो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं ?, ण ठाइहत्ति वारिजतो, पुषभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ-जिआवेहत्ति, देवो भणइ-एवं चेव अहपि खइयो, जइ एरिसिं चरियं अणुचरइ तो जीवइ, जइणाणुपालेइ तो उज्जीविओऽवि पुणो मरइ, तं च चरियं गाथाहिं कहेइएएहिँ अहं खइओ चउहिवि आसीविसेहि धोरेहिं । विसनिग्घायणहे चरामि विविहंतवोकम्मं ॥१२६४॥
व्याख्या-एभिरहं 'खइओ'त्ति भक्षितश्चतुर्भिरपि 'आशीविपैः' भुजङ्गै घोरै-रौद्रैः 'विषनिर्घातनहेतुः' विपनिर्घातननिमित्तं 'चरामि' आसेवयामि विविध विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपःकर्म तपःक्रियामिति गाथार्थः ॥ १२६४ ॥
स खादितः पतितो मृतश्च, पश्चाद्देवो भणति-कथं जातं, न स्थास्यसि वार्यमाणः, पूर्वभणितानि च तानि मित्राणि अगदान् क्षिपन्ति औषधानि च, न कश्चिदुर्ण कुर्वन्ति, पश्चात्तस्य स्वजनः पादयोः पतितः-जीवयथेति, देवो भणति-एवमेवाहमपि खादितः, यदीदशा चर्यामनुचरति तदा जीवति, यदि नानुपालयति तदोजीवितोऽपि पुनर्मियते, तां च चर्या गाथाभिः कथयति । सेवामि सेलकाणणसुसाणसुन्नघररुक्खमूलाई । पावाहीणं तेसिं खणमविन उवेमि वीसंभं ॥ १२६५ ॥
व्याख्या-'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैला:-पर्वताः काननानि-दूरवर्तिवनानि शैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसाणां तेषां क्षणमपि 'नोपैमि' न यामि 'विनम्भं विश्वासमिति गाथार्थः॥१२६५॥
अच्चाहारो न सहे अइनिद्रेण विसया उइजति । जायामायाहारो तपि पकाम न इच्छामि ॥ १२६६ ॥ व्याख्या-'अत्याहारः' प्रभूताहारः 'न सहे'त्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः-अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः 'उदीयन्ते' उद्रे कावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थः ॥ १२६६ ॥
सन्नकयाहारो अहवा विगईविवज्जियाहारो।जं किंचि कयाहारो अवउज्झियथोवमाहारो॥१२६७ ॥ व्याख्या-उस्सन्नं' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधा, 'अवउजियथोषमाहारो'त्ति उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ॥ १२६७ ॥ एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयतिथोवाहारो थोवभणिओ य जो होइ थोवनिदो या थोवोवहिउवगरणो तस्स हु देवावि पणमंति ॥ १२९८ ॥ ___ व्याख्या-स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः ॥ १२६८ ॥ एवं जइ अणुपालेइ तओ उढेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुवाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भणइसिद्धे नमंसिऊणं संसारत्था य जे महाविना । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ॥ १२६९ ॥
व्याख्या-सिद्धान्' मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' केवलिचतुर्दशपूर्व वित्प्रभृतयस्ताँश्च नमस्कृत्य वक्ष्ये दण्डक्रिया सर्वविपनिवारिणी विद्यामिति गाथार्थः॥ १२६९ ॥ सा चेयं
सव्वं पाणइवायं पञ्चक्खाई मि अलियवयणं च ।सध्वमदत्तादाणं अब्बंभ परिग्गहं स्वाहा ॥१२७० ॥ व्याख्या-'सर्व' सम्पूर्ण प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एप महात्मेति, अनृतवचनं च, सर्व चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ॥ १२७० ॥ एवं भणिए उहिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उडविओ, पुणोवि पहाविओ, पडिओ, तइयाए वेलाए देवो णिच्छइ, पसादिओ, उविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेण समं पहाविओ, एगंमि वणसंडे पुवभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ,
एवं यचनुपालयति तदोत्तिष्ठति, भणन्ति-वरमेवमपि जीवन, पश्चात् स पूर्वाभिमुखः स्थितः क्रिया प्रयोक्तुकामो देवो भणति-1 एवं भणिते उस्थितो मातापितृभ्यां तमै कथितं, म श्रद्दधाति, पश्चात् प्रधावितः पतितः, पुनरपि देवेन तथैव सत्यापितः, पुनरपि प्रधावितः, पतितः, तृतीयायां वेलायां देवो नेच्छति, प्रसादितः, उस्थापितः, प्रविश्रुतं, मातापितरावापृच्छय तेन समं प्रधावितः, एकस्मिन् वनपण्डे पूर्वभवान् कथयति, संजुद्भः प्रत्येकबुद्धो जातः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org