________________
भावश्यक हारिभद्रीया गंधव्यनागदत्तो इच्छइ सप्पेहि खिल्लिउं इहयं । तं जइ कहिंवि खजइ इत्थ हु दोसौं न कॉयची ॥१२५२॥
व्याख्या---'गन्धर्वनागदत्त' इति नामा 'इच्छति' अभिलपति सः सार्द्ध क्रीडितुम् , अत्र स खलु-अयं यदि 'कथञ्चित्' केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थः॥ १२५२ ॥ यथा चतसृष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाहतरुणदिवायरनयणो विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्ज्ञलियरोसो ॥ १२५३ ॥
व्याख्या-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचने यस्य स तरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युलतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युलताचश्चलानजिह्वाकः घोरा-रौद्रा महाविपाः-प्रधानविपयुक्ता दंष्ट्रा-आस्यो यस्य स धोरमहाविषदंष्ट्रः, उल्केव-चुड्डलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः ॥ १२५३ ॥ डको जेण मणूसो कयमकयं न याणई सुबहुयंपि । अदिस्समाणमछु कह घिच्छसि तं महानागं? ॥ १२५४ ॥
व्याख्या-'डक्को' दष्टः 'येन' सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुवहपि, 'अदृश्यमानमृत्युम्' अहश्यमानोऽयं करण्डकस्थो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतः कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पम् ?, इति गाथार्थः॥१२५४॥ अयं च क्रोधसः, पुरुषे संयोजना स्वबुद्ध्या कायो,क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि । मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ माणेण वियट्टई नागो ॥१२५५ ॥
व्याख्या-मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फर्णो यस्य सोऽष्टफणः जातिकुलरूपबललाभवुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमो-मृत्युर्मृत्युहेतुत्वात् 'ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्वः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपार्थे स्थितः, दक्षिणदिग्यासस्तु दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, अत एवाह-'मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थः॥ १२५५॥ डको जेण मणूसो थडो न गणेइ देवरायमवि । तं मेरुपव्वय निभं कह घिच्छसि तं महानागं । ॥ १२५६ ॥
व्याख्या-'डको' दष्टः 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपर्वतनिभं कथं गृहीप्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ॥ १२५६ ॥ अयं च मानसर्पः॥ सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा।मायामइआ नागी नियडिकवडवंचणाकुसला ॥१२५७॥
व्याख्या-सललिता-मृद्वी वेलहला-स्फीता गतिर्यस्याः सा सललितवेलहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तरो विकारः कपट-वेपपरावर्तादिर्वाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथाथेः ॥ १२५७॥
उद्धत प्र.. तं च सि वालग्गाही अणोसहिबलोअअपरिहत्थोय।सा य चिरसंचियविसा गहणंमि वणे वसइ नागी१२५८ ___ व्याख्या-इयमेवम्भूता नागी रोद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः “अनौषधिबलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविपा 'गहने' सङ्कले 'वने' कार्यजाले वसति नागीति गाथार्थः ॥ १२५८ ॥ होही ते विणिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो नहु अप्पाणं चिगिच्छिहिसि ॥१२५९ ॥
व्याख्या-भविष्यति ते विनिपातः तस्या दंष्ट्रान्तरम् 'उपगतस्य' प्राप्तस्य, अल्पं-स्तो औषधिमन्त्रवलं यस्य तव स त्वं अल्पोपधिमन्त्रवलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः ॥ १२५९ ॥ इयं च मायानागी ॥
उत्थरमाणो सव्वं महालओ पुन्नमेहनिग्घोसो। उत्तरपासंमि ठिओ लोहेण वियट्टई नागो॥ १२६० ॥ व्याख्या-'उत्थरमाणोत्ति अभिभवन् 'सर्च' वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावतस्येव नि?पो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्यासस्तु सर्वोत्तरो लोभ इति ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'वियदृइत्ति व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ॥ १२६०॥ इक्को जेण मणुसो होइ महासागरुव्व दुप्पूरो । तं सव्वविससमुदयं कह घिच्छसि तं महानागं ॥ १२६१ ॥
व्याख्या-दप्टो येन मनुप्यो भवति 'महासागर इव' स्वयम्भूरमण इव दुष्पूर'तम्' इत्थम्भूतं 'सर्वविषसमुदयं' सर्वव्यसनकराजमार्ग कथं ग्रहीप्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः॥ १२६१॥ अयं तु लोभसर्पः॥ एए ते पावाही चत्तारिवि कोहमाणमयलोभा। जेहि सया संतत्तं जरियमिव जयं कलकलेइ ॥ १२६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org