SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 50 आवश्यकारभा अयं गाथाक्षरार्थः ॥ १२४९ ॥ इदं पुनः प्राकरणिकं- 'पडिलेहेडं पमज्जिय भत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेत्र उ नियमेण पडिक्कमे साहू ॥ १ ॥ इत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे । पंथे वा वच्चंतो णदिसंतरणे पडिक्कमइ ||२||' तं प्रतिक्रमणद्वारम् अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीति, आह च निर्युक्तिकारःमिच्छत पडकमणं तहेव अस्संजमे पंडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थानं ॥ १२५० ॥ संसार पडिक्कमणं चउन्विहं होइ आणुपुवीए । भावपडिकमणं पुण तिविहं तिविहेण नेयवं ।। १२५१ ।। व्याख्या -- मिथ्यात्वमोहनीय कर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसह सात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम्, असंयमः प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां' प्राग्निरूपित शब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाक्कायलक्षणानाम् 'अप्रशस्तानाम्' अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥ १२५० ॥ संसरणं संसारः - तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं 'चतुर्विधं' चतुष्प्रकारं भवति 'आनुपूर्व्या' परिपाठ्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (पामा ) भोगानाभोगस हसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम्, एवं तिर्यग्रामरेष्वपि विभाषा, नवरं शुभनरामरायुर्हेतुभ्यो मायाधनासेव १ प्रतिलिख्य प्रमृज्य भक्तं पानं च ध्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः ॥ १ ॥ हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र निषेत | पंधि वा व्रजन नदीसंतरणे प्रतिक्राम्यति ॥ २ ॥ नादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, 'भावपडिकमणं पुण तिविहं तिविहेण णेयवं' तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनः शब्दस्यैव कारार्थत्वात्, एतदुक्तं भवति - 'मिच्छत्ताइ न गच्छइ ण य गच्छावेइ णाणुजाणेई । जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥ १ ॥' 'मनसा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा 'न य गच्छावे ' मनसा न चिन्तयति - कथमेष तच्च निकादिः स्यात् ?, वाचा न प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'णाणुजाण' कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा न सुष्ट्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः ॥ १२५१ ॥ इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तम्- 'कोहो' य माणो य अणिग्गहीया, माया य लोहो पवमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणन्भवस्स ॥ १ ॥' अतः कषायप्रतिक्रमण एवोदाहरणमुध्यते - केई दो संजया संगारं काऊण देवलोयं गया, इओ य एगंमि णयरे एगस्स सिट्ठिस्स भारिया पुत्तणिमित्तं णागदेवया उववासेण ठिया, ताए भणियं - होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चइत्ता तीए पुत्तो जाओ, १ क्रोधश्च मानश्च अनिगृहीतौ माया च लोभश्च परिवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥ २ कौचित् द्वौ संयतौ संकेतं कृत्वा देवलोकं गतौ, इतश्चैकस्मिन्नगरे एकस्य श्रेष्ठिनो भार्या पुत्रनिमित्तं नागदेवतायै उपवासेन स्थिता, तया भणितं भविष्यति ते पुत्रो देवलोकच्युत इति, तयोरेकयुत्वा तस्याः पुत्रो जातः, नागदत्तोत्ति से णामं कथं, बावन्तरिकलाविसारओ जाओ, गंधबंव से अइप्पियं, तेण गंधघणागदत्तो भण्णइ, तऔ सो मित्तजणपरिवारिओ सोक्खमणुभवइ, देवो य णं बहुसो बहुसो बोहेइ, सो ण संबुज्झइ, ताहे सो देवो अवत्तलिंगेणं ण णइ जस पवइयगो, जेण से रजोहरणाइ उवगरणं णत्थि सप्पे चत्तारि करंडयहत्थो गहऊण तस्स उज्जाणियागयस्स अदूरसामंतेण वीईवयइ, मित्तेहिं से कहियं - एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमेत्थं १, देवो भणइसप्पा, गंधवणागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओवि ण मरइ, गंधव नागदत्तो अमरिसिओ भणइ - अहंपि रमामि तव संतिएहिं सप्पेहिं, देवो भणइ-मरसि जइ खज्जसि, जाहे णिबंधेण लग्गो ताहे मंडलं आलिहित्ता देवेण चउद्दिसिंपि करंडगा ठविता, पच्छा से सबं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओ १ नागदत्त इति तस्य नाम कृतं द्वासप्ततिकलाविशारदो जातः, गान्धर्व चास्यातिप्रियं तेन गन्धर्वनागदत्तो भण्यते, ततः स मित्रजनपरिवारितः सौख्यमनुभवति, देवश्चैनं बहुशः २ बोधयति, स न सम्बुध्यते, तदा स देवोऽव्यक्तलिङ्गेन न ज्ञायते यथैष प्रबजितकः, येन रजोहरणायुपकरणं तस्य नास्ति, सर्पोश्चतुरः करण्डकहस्तो गृहीत्वा तस्योधानिकागतं स्यादूरसामीप्येन व्यतिव्रजति, मित्रैस्तस्य कथितं - एष सर्पक्रीडक इति, गतस्तस्य मूलं, पृच्छति -किमत्र ?, देवो भणति - सर्पाः, गन्धर्वनागदत्तो भणति रमावहे, एवं मामकीनैरहं तावकीनैः, देवस्तत्सत्कैः रमते, खादितोऽपि न म्रियते, गन्धर्वनागदत्तोऽमर्षितो भणति - अह मपि तव सत्कैः सर्वैः रमे देवो भणति-मरिष्यसि यदि भक्षिष्य से, यदा निर्बन्धेन लभस्तदा मण्डलमालिख्य देवेन चतसृष्वपि दिक्षु करण्डकाः स्थापिताः, पश्चात्तस्य सर्वे स्वजनमित्रपरिजनं मेलयित्वा तस्य समक्षं हवं भणितवान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy