SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 49 मावश्यकहारिभद्रीया सपडिकमणोधम्मो पुरिमस्स य पच्छिमस्स य जिणस्सामजिझमयाण जिणाणं कारणजाए पडिक्कमणं ॥१२४४॥ व्याख्या-सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेव स्थानेषु 'मध्यमानां जिनानाम् अजितादीनां पार्श्वपर्यन्तानां 'कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ॥ १२४४ ॥ तथा चाह ग्रन्थकारः जो जाहे आवन्नो साह अन्नयरयंमि ठाणंमि । सो ताहे पडिक्कमई मज्झिमयाणं जिणवराणं ॥ १२४५॥ व्याख्या-'यः' साधुरिति योगः 'यदा' यस्मिन् काले पूर्वाह्लादौ 'आपन्नः' प्राप्तः ‘अन्यतरस्मिन् स्थाने' प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्षं वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ॥ १२४५ ॥ आह-किमयमेवं भेदः प्रतिक्रमणकृतः आहोश्विदन्योऽप्यस्ति?, अस्तीत्याह, यतःयावीसं तित्थयरा सामाइयसंजमं उवासंति । छेओवठ्ठावणयं पुण. वयन्ति उसभो य वीरो य ॥ १२४६॥ व्याख्या-'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिक संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति-प्रथमतीर्थङ्करचरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायिकसंयतो भवति तावद यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत. अधनात पडजीवनिकायावगमं यावत तया पन: सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थानं प्राप्त उपस्थाप्यत इति गाथार्थः ॥ १२४६ ॥ अयं च विशेषः- आचेलुक्कोद्देसिय सिज्जातररायपिंडकिइकम्मे । वयजिट्रपडिक्कमणे मासं पज्जोसवणकप्पे ॥१॥ एतद्गाथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासनिकम्, अधुना यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं देवसिकादिभेदेन निरूपयन्नाहपडिकमणं देसिय राइयं च इत्तरियमावकहियं च । पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ॥१२४७ ॥ _ व्याख्या-'प्रतिक्रमण' प्राग्निरूपितशब्दार्थ, 'देवसिकं' दिवसनिर्वृत्तं 'रात्रिक' रजनिनिवृत्तम् , इत्वरं तु-अल्पकालिक देवसिकायेव 'यावत्कथिक' यावज्जीविकं व्रतादिलक्षणं 'पाक्षिक' पक्षातिचारनिर्वृत्तम् , आह-देवसिकेनैव शोधिते सत्या. त्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहदृष्टान्तोऽत्र-'जहं गेहं पइदियहपि सोहियं तहवि पक्खसंधीए । सोहिजइ सविसेसं एवं इहयंपि णायचं ॥१॥' एवं चातुर्मासिकं सांवत्सरिकम् , एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः ॥ १२४७ ॥ साम्प्रतं यावत्कथिकं प्रतिक्रमणमुपदर्शयन्नाह पंच य महत्वयाई राईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा दुहं पि य आवकहियाई ॥१२४८॥ व्याख्या-पञ्च महाव्रतानि-प्राणांतिपातादिनिवृत्तिलक्षणानि राईछहाई' ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिपपानि पुरिम पश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च' निर्वृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादि आचेलक्यमोहशिकं शय्यातरराजपिण्डकृतिकर्माणि । व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥ ॥ २ यथा गृहं प्रतिदिवसमपि शोधित तथापि पक्षसन्धी । शोध्यते सविशेपमेवमिहापि ज्ञातव्यम् ॥१॥ परिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद् मध्यमानां च यावत्कथिकान्येतानीति गाथार्थः ॥ १२४८ ॥ इत्थं यावकथिकमनेकभेदभिन्नं प्रतिपादितम्, इत्वरमपि देवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाह__उच्चारे पासवणे ग्वेले मिंघाणए पडिक्कमणं । आभोगमणाभोगे सहस्सकारे पडिक्कमणं ॥१२४९॥ व्याख्या-'उच्चारे' पुरीपे 'प्रस्रवणे' मूत्रे 'खेले' श्लेष्मणि 'सिङ्घानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेषः-"उच्चारं पासवणं भूमीए वोसिरित्तु उवउत्तो। वोसरिऊण य तत्तो इरियावहि पडिकमइ ॥१॥ वोसिरइ मत्तगे जइ तो न पडिक्कमइ मत्तगं जो उ । साहू परिहवेई णियमेण पडिक्कमे सो उ ॥२॥ खेलं सिंघाणं वाऽपडिलेंहिय अप्पमजिउ तह य। वोसिरिय पडिक्कमई तं पिय मिच्छुक्कडं देइ॥३॥' प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्-'आभोगे जाणतेण जोऽइयारो को पुणो तस्स । जायम्मिवि अणुतावे पडिकमणेऽजाणया इयरो ॥१॥' अनाभोगसहसात्कारे इत्थंलक्षणे-'पुविं अपासिणं छूढे पायंमि जं पुणो पासे । ण य तरइ णियत्ते पायं सहसाकरणमेयं ॥१॥' अस्मिश्च सति प्रतिक्रमणम् , उच्चारं प्रश्रवणं भूमौ ग्युस्मृज्योपयुक्तः । ब्युरसृज्य च तत ईर्यापथिकी प्रतिकामति ॥ १॥ व्युत्सृजति मात्रके यदि तदान प्रतिकाम्यति मात्रक यस्तु । साधुः परिछापयति नियमेन प्रतिक्राम्यति स एव ॥२॥ श्लेष्माणं सिवानं वाऽप्रतिलिख्याप्रमाय तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्यादुष्कृतं ददाति ॥३॥ आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः ॥ पूर्वमदृष्ट्वा क्षिसे पादे यत् पुनः पश्येत् । मच शक्रोति निवर्तितुं पाद सहसाकरणमेतत् ॥1॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy