________________
42
आवश्यकहारिभद्रीया तेन तेन प्रकारेण लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणा, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वधा-प्रशस्ताऽप्रशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं-प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः ॥ १२३५ ॥ इदानी परिहरणा, 'हम् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैर्वर्जनेत्यर्थः, सा च अष्टविधा, तथा चाहणाम ठवणा दविए परिरय परिहार बजणाए य । अणुगह भावे य तहा अट्टविहा होइ परिहरणा ॥१२३६॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रष्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिरयपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा,
* आस्कोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनादिविधिविराधनापरिहरणेत्यर्थः भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानी, वृञ् वरणे' इत्यस्य ण्यन्तस्य स्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह
णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छव्विहो होइ ॥ १२३७ ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टा देशनायां उपयुक्तस्य वा निह्नवस्थापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावय॑ते क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावर्ण्यते क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तन निवृत्तिा, सा च पोढा, यत आहनाम ठवणा दरिए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छविहो होइ ॥ १२३८॥
व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र "णिदि कुत्सायाम्' अस्य 'गुरोश्च हलः' (पा०३-३-१०३) इत्यकारः टाप, निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छविहो होइ ॥ १२३९ ॥
व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम् अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते या दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदो, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविषयेति, 'हो ! दुहु कयं हा ! दुडु कारियं दुहु अणुमयं हत्ति । अंतो २ डज्झइ झुसिरुब दुमो वणदंवेणं ॥१॥' अथवीघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेति गाथार्थः ॥१२३९ ॥ गहेंदानी, तत्र 'गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकारः टापू,गहणं गहरे-परसाक्षिकी कुत्सैवेति भावार्थः, सा च नामादिभेदतः पोलैवेति, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ॥ १२४० ॥
व्याख्या-नामस्थापने गतार्थे, द्रव्यगर्दा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्येत्यादिभावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः। इदानीं शुद्धिः 'शुध शौचे' अस्य स्त्रियां क्तिन् , शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोडैव, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छव्विहो होइ ॥ १२४१ ॥
हा दुष्टु कृतं हा दुष्टु कारितं दुष्टुनुमतं हेति । अन्तरन्तर्दयते शुपिर इव दुमो वनदतेन ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org