SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 41 आवश्यकहारिभद्रीया त्रितयमुक्तम् , अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनापूर्वमित्यतोऽनन्तरा. ध्ययने तन्निरूपितम् , इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत् प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्यास्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिप्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते-'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'क्रमु पादविक्षेपे' अस्य ल्युडन्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगान्तरं कान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तं च-"स्वस्थानाद् यत्परस्थानं, प्रमादस्य वंशागतः । तत्रैव क्रमणं भूयः, पतिक्रमणमुच्यते ॥१॥क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः॥२॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तं च-"प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥१॥" इह च यथा करणात् कर्मकोंः सिद्धिः, तद्व्यतिरेकेण करणस्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारःपडिकमणं पडिकमओ पडिकमियत्वं च आणुपुत्वीए । तीए पञ्चप्पन्ने अणागए चेव कालंमि ॥१२३१ ।। व्याख्या-'प्रतिक्रमणं' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्म-अशुभयोगलक्षणम् , 'आनुपूर्व्या' परिपाट्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने' वर्तमाने 'अनागते चैव' एष्ये चैत्र काले, प्रतिक्रमणादि योग्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं, यत उक्तम्-'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामिति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते. प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ॥ १२३१ ॥ साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाहजीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झाणपसत्था जोगा जे ते ण पडिक्कमे साह॥१२३२॥ ___ व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ?-सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ?-'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्याख्यानपरत्वादस्य, प्रशस्तौ च तौ योगौ च प्रशस्तयोगी, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग ध्यानग्रहणं, प्रशस्तयोगोपादानाच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तमवगन्तव्यम् , आह-'यथोद्देशं निर्देश' इति न्यायमुलङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्बधीनत्वाच्च क्रियाया इत्य भतीनं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि. दोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ॥१२३२ ॥ उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहपडिकमणं पड़ियरणा परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही पडिकमणं अट्टहा होइ ॥१२३३ ॥ व्याख्या-'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुनाभेदतोनिरूप्यते, तत्पुननोमादिभेदतःषोढा भवति, तथाचाऽऽहगामं ठवणा दविए वित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छव्विहो होइ ॥ १२३४ ॥ ___ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लन्ध्यादिनिमित्तं वा उपयुक्तस्य वा निवस्य पुस्तकादिन्यस्तं या, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे व्यावर्ण्यते क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्वं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति, प्रशस्तेनात्राधिकारः॥ प्रतिचरणा व्याख्यायते-'चर गतिभक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च पद्विधा, तथा चाहणामं ठवणा दविए वित्ते काले तहेव भावे य । एसो पडियरणाए णिवखेवो छव्विहो होइ ॥१२३५ ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरणं-मनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy