________________
40
आवश्यक हारिभद्रीया
व्याख्या - बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत्, रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियद्दूरं यावदित्याह-यावच्छिरसा स्पृशेत् पादाविति गाथार्थः ॥ १२२२ ॥ अव्याबाधं द्रव्यतो भावतश्च, द्रव्यतः खङ्गाद्याघातव्याबा धाकारण विकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणं भावतः साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च द्रव्यत औषधा दिना कायस्थ, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भात्रतश्च द्रव्यतः कलुषाशयस्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह च
अवबाह दुविहं दबे भावे य जत्त जवणा य । अवराहखामणावि य सवित्थरत्थं विभासिजा ॥ १२२३ ॥
एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम् इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः निर्युक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः-
छंदेणऽणुजाणामि तहत्ति तुज्झपि वहई एवं । अहमवि खामेमि तुमे वयणाई वंदणरिहस्स ॥ १२२४ ॥ व्याख्या - छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां वचनानि 'वन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ १२२४ ॥
तेणवि पडिच्छियच्वं गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा संवेगं संजणंतेणं ॥ १२२५ ॥ व्याख्या--' --' तेन' वन्दनार्हेण एवं प्रत्येष्टष्यम्, अपिशब्दस्यैवकारार्थत्वाद्दद्ध्यादिगौरवरहितेन, 'शुद्ध हृदयेन' कषायधिप्रमुक्केन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगः- शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः ॥ १२२५ ॥ इत्थं सूत्रस्पर्श निर्युक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाहआवत्ताइस जुगवं इह भणिओ कायवापवावारो । दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो ॥ १२२६॥
व्याख्या - इहाssवर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा 'भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद्, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, उच्यते
1
भिन्नविसयं निसिद्धं किरियादुगमेगया ण एगंमि । जोगतिगस्स वि भंगिय सुत्ते किरिया जओ भणिया ॥ १२२७॥ व्याख्या - इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च तत्रोत्प्रेक्षायां यदोपयुक्त न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्- "भंगियसुयं गुणंतो वट्टइ तिविहेऽवि जोगंमी'त्यादि, गतं प्रत्यवस्थानं,
सीसी पढपवेसे दिउमा वस्तिआएँ पडिक्कमिउं । वितियपवे संमि पुणो बंदह किं ? चालणा अहवा॥। १२२८|| जह दूओ रायाणं णमिउं कज्जं निवेइउं पच्छ । वीसज्जिओवि वंदिय गच्छइ साहूवि एमेव ॥। १२२९ ॥
१ मङ्गिक श्रुतं गुणयन् वर्त्तते त्रिविधेऽपि योगे । २ शिष्यः प्रथमप्रवेशे वन्दितुमावश्यिक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनर्वन्दते किं चालनाऽथवा ॥ १ ॥ यथावृतो राजानं नत्वा कार्य निवेद्य । पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधवोऽपि ॥ २ ॥
व्याख्या - इदं प्रत्यवस्थानं, उक्तमानुषङ्गिक, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाह
er fasaम्मविहिं जंता चरणकरणमुवउत्ता । साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ १२३० ॥ व्याख्या- 'एनम्' अनन्तरदर्शित 'कृतिकर्मविधिं' वन्दनविधिं युञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म 'अनेक भवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः कियद् १ - अनन्तमिति गाथार्थः ॥ १२३० ॥ उक्तोऽनुगमः, नयाः सामायिकनिर्युक्ताविव द्रष्टव्याः ॥ इत्याचार्यश्रीहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां वन्दनाध्ययनं समासमिति । कृत्वा चन्दनविवृर्ति प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय सेवन्तु ॥ १ ॥
Moment
व्याख्यातं वन्दनाध्ययनम् अधुना प्रतिक्रमणाध्ययनमारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽर्हदुपदिष्टसामायिक गुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम्, इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपाते यद्वा वन्दनाध्ययने कृतिकर्मरूपायाः साधुभक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम्- 'विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माऽऽराहणाऽकिरिया ॥१॥' प्रतिक्रमणाध्ययने तु मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदाननिषेधः प्रतिपाद्यते, वक्ष्यति च -“मिच्छत्तपडिक्कमणं तदेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाण य अप्पसस्थाणं ॥१॥” अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुति', सा च दर्शनज्ञानरूपा, एवमिदं
१ पृष्ठ ५१५ गाथा १९१५ २ मिध्यात्वप्रतिक्रमणं तथैवासंयमेऽपि प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रचस्वानाम् ॥ १ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org