________________
39
आवश्यक हारिभद्रीया
एवं उवहसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंता भवइ राइणियस्स, कालासायणा राओ वा वियाले वा चाहरमाणस्स तुसिणीए चिट्ठइ, भावासायणा आयरियं तुमं तुमति वत्ता भवइ, एवं तित्तीसंपि उसु दबाइसु समोयरंति' 'यत्किञ्चिन्मिथ्या' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, 'वाग्दुष्कृतया ' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये 'ति क्रोधवत्येति प्राप्ते अर्शादेराकृतिगणत्वात् अच्प्रत्ययान्तत्वात् 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेहभवान्यभवगताऽतीतानागतकालसङ्ग्रहार्थमाह-सर्वकालेन - अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचारा:- मातृस्थानगर्भाः क्रियाविशेषा यस्यामिति समासस्तया, सर्वधर्मा:- अष्टौ प्रवचनमातरः तेषामतिक्रमणं - लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः - अपराधः 'कृती' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रामामि - अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमति - त्यागेन, सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्द्धावनतकाय एव
१ एवमुपधिसंस्तारकादिषु विभाषा, क्षेत्राशातनाऽऽसनं गन्ता भवति रात्रिकस्य, कालाशातना रात्रौ वा विकाले वा व्याहरतस्तूष्णीकस्तिष्ठति, भावाशातना आचार्य स्वं त्वमिति वक्ता भवति, एवं त्रयस्त्रिंशदपि चतसृष्वपि द्रव्यादिषु समवसरन्ति. भणति - 'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यमित्येवं, नवरमयं विशेष:- 'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावशिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहार्थ सूत्रस्पर्शिकगाथाः स्वस्थाने खल्वनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः, साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाह
इच्छा य अणुन्नवणा अग्वावाहं च जन्त जवणा य । अवराहखामणावि य छट्टाणा हुंति बंद ॥ १२१८ ॥ व्याख्या - इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापनाच अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति बन्दनके ॥ तत्रेच्छा षड्विधा, यथोक्तम्
णामं ठवणादवि खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छव्विहो होइ ।। १२१९ ॥ व्याख्या -नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः - रर्यणिमहिसारिया उ चोरा परदारिया य इच्छति । तालायरा सुभिक्खं बहुधण्णा केइ दुब्भिक्खं ॥ १ ॥ भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता रूयाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं, क्षुण्णत्वामन्थविस्तरभयाच्च नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा, सा च षड्विधा
नाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेवो छविहो होइ ।। १२२० ॥
१ रजनीमभिसारिकास्तु चौराः पारदारिकाश्चेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिदुर्भिक्षम् ॥ १ ॥
व्याख्या - नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषित युवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधा - केवल शिष्य सोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्य क्षुण्णत्वादवग्रहस्य निक्षेपः
ri ठषणा दविए खिते काले तहेव भाषे य । एसो उ उग्गहस्सा णिक्खेवो छव्विहो होइ ।। १२२१ ॥
व्याख्या - सचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति तत्र च समन्ततः सक्रोशं योजनं, horasो यो यं कालमवगृह्णाति, वर्षासु चतुरो मासान् ऋतुबद्धे मार्स, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाथवग्रहः, इतरस्तु क्रोधाद्यवग्रह इति, अथवाऽवग्रहः पञ्चधा - "देविंदरायगिहवइ सागरिसाधम्मिउग्गहो तह य । पंचविहो पण्णत्तो अवग्गहो वीयरागेहिं ॥ १ ॥' अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारः - 'आयप्यमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पइसरिउं ॥ १ ॥ ततश्च तमनुज्ञाप्य प्रविशति, आह च निर्युक्तिकार:
बाहिरखित्तंमि ठिओ अणुन्नवित्ता मिउग्गहं फासे । उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए । १२२२ ॥
१ देवेन्द्रराज गृहपतिसागारिकसाधर्मिका व ग्रहस्तथैव । पञ्चविधः प्रज्ञप्तोऽवग्रहो वीतरागैः ॥ २ आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न करूपते तत्र प्रवेष्टुम् ॥ २ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org