SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 38 आवश्यक हारिभद्रीया लोभाए सव्वकालियाए सम्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मेअइयारो कओ तस्स खमासमणो ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ (सूत्रम्) अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पविधा ॥ १॥ तत्रास्खलितपदोच्चारणं संहिता, सा च-इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए' इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउगह निसीहि, अहोकायं कायसंफासं, खमणिजो भे किलामो अल्पकिलंताणं बहु सुभेण भे दिवसो वइकतो ?, जत्ता मेजवणिजच भे?, खामेमि खमासमणो देवसियं वइक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सवकालियाए सबमिच्छोवयाराए सवधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिकमामि गं वोसिरामिाअधुना पदविभाग:-इच्छामि क्षमाश्रमणावन्दितु यापनीयया नेषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकार्य कायसंस्पर्श क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः ?, यात्रा भवतां ? यापनीयं च भवतां,क्षमयामि क्षमाश्रमण! दैवसिकंव्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां देवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सवेकालिक्या सर्वमिथ्योपचारया सवेधमोतिक्रमणया आशातनया यो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण प्रतिक्रमामि निन्दामि गोमि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने' इत्यस्याइन्तस्य क्षमा, 'श्रम तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रणं, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तयेनीयच , यापयतीति यापनीया तया, 'पिधु गत्याम्' अस्य निपूर्वस्य पनि निषेधन निषेधः निषेधेन निर्वृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकेस्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहाथै तु न ब्रूमः, अयं च प्रकृतसूत्रार्थ:-अवग्रहाद्वहिःस्थितो विनेयोऽर्द्धावनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तया तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुाक्षेपादियुक्तः 'त्रिविधेने ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु'छन्दसे'ति भणति, ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीध्वं अनुज्ञां प्रयच्छथ, 'मम'इत्यात्मनिर्देशे, कं-मितश्चासावव ग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्तात्कायः अधःकायः-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम् अधुना 'क्लमो' देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्तं-कुमो येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति-तथेति,यथा भवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादिलक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवताम् ?, अत्रान्तरे गुरुर्भणति-युष्माकमपि वर्तते , मम तावदुत्सर्पति भवतोऽप्युत्सर्पतीत्यर्थः, पुनरप्याह विनेयो-यापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवता?, शरीरमिति गम्यते, अत्रान्तरे गुरुराह-एवमामं, यापनीयमित्यर्थः, पुनराह विनेय:-क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निर्वृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराध, दैवसिकग्रहणं रात्रिकाद्युपलक्षणार्थम् , अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि देवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामयित्वाऽऽलोचनाhण प्रतिक्रमणाhण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहान्निर्गच्छन् यथा अर्थो व्यवस्थितस्तथा क्रियया प्रदर्शयन्नावश्यिक्येत्यादि दण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैनिर्वृत्ता आवश्यिकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्यरूपाणां सम्बन्धिन्या 'देवसिक्या' दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया ?-त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्याः, 'ताओ पुण तित्तीसंपि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति दवासायणाए ४, दवासायणा राइणिएण समं भुंजंतो मणुण्णं अप्पणा भुंजइ साः पुनमयस्त्रिंशदपि आशातनाः मासुचतसृषु मूलाशातनासु समवतरन्ति द्रव्याशातनायो , द्रव्याशातना राखिकेन समं भुजानो मनोशमात्मना भुले. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy