SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 37 आवश्यक हारिभद्रीया व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ॥ १२१३ ॥ आह— दोषपरिशुद्धाद्वन्दनात्को गुणः १ येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेआवस्सएस जह जह कुणइ पयत्तं अहीणमहरितं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ १२१४ ॥ व्याख्या- 'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा २ करोति प्रयत्लम् 'अहीनातिरिक्तं ' न हीनं नाप्यधिकं, किम्भूतः सन् ? - त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा २ 'से' तस्य वन्दनकर्तुर्निर्जरा भवति-कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः ॥ १२१४ || गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र वन्दनकरणकारणानि प्रतिपादयन्नाह - विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ।। १२१५ ॥ व्याख्या - विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह- 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः, मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भग निमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्वं श्रुतग्रहणं, 'अकिरिय'त्ति पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः- तहारूवं णं भंते ! समणं वा माहणं वा बंदमाणस्स पज्जुवासमाणस्स किंफला १ तथारूपं श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य किंफला वंदेणपज्जुवासणया १, गोयमा ! सवणफला, सवणे णाणफले, णाणे विष्णाणफले, विष्णाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफला" । तथा वाचक मुरथेनाप्युक्तम् — 'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं ''चाश्रवनिरोधः ॥ १ ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥२॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ३ ॥ इति गाथार्थः ॥ १२१५ ॥ किं च विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्यमुक्कस्स, कओ धम्मो कओ तवो १ ।। १२१६ ॥ व्याख्या - शास्यन्तेऽनेन जीवा इति शासनं-द्वादशाङ्कं तस्मिन् विनयो मूलं यत उक्तम्- 'मूलोउ खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुति साला (हा) । साहप्पसाहा विरुवं ( है ) ति पत्ता, ततो सि पुष्पं च फलं रसो य ॥ १ ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ॥ २ ॥” अतो विनीतः संयतो भवेत्, १ वन्दनपर्युपासना ?, गौतम ! श्रवणफला, श्रवणं ज्ञानफलं ज्ञानं विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं, संयमोऽनाश्रवफकः । अनाश्रवस्तपः फलः, तपो व्यवदानफलं व्यवदानं अक्रियाफलं, अक्रिया सिद्धिगतिगमनफला । २ मूलात् स्कन्धप्रभवो तुमस्य स्कन्धात् पश्चात् प्रभवति शाखा । शाखायाः प्रशाखा विरोहन्ति ( ततः ) पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च ॥ १ ॥ एवं धर्मस्य विनयो मूलं परमस्तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ २ ॥ विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ १२१६ ॥ अतो विनयोपचारार्थं कृतिकर्म क्रियत इति स्थितम् । आह - विनय इति कः शब्दार्थ इति, उच्यते— जम्हा विणय कम्मं अट्ठविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ १२१७ ॥ व्याख्या - यस्माद्विनयति कर्म - नाशयति कर्माष्टविधं किमर्थं । - चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीन संसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः ॥ १२१७ ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापक निष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं - 'इच्छामि खमासमणो ! बंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंकासं, खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो ?, जत्ता भे ? जवणिज्जं च भे ? खामेमि खमासमणो ! देवसियं वक्कमं, आवस्सियाए पडिक्कमामि रुमासमणाणं देवसिआए आसा यणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy