________________
36 शावश्यकहारिभद्रीया किरकम्मपि करितो न होइ किइकम्मनिजराभागी। पणवीसामन्नयर साहू ठाणं विराहिंतो ॥१२०५॥
व्याख्या-कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानाम' भ्यतरत् साधुः स्थानं विराधयन् , विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति गाथार्थः ॥ १२०५ ॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽहपणवीसा[आवस्सग]परिसुद्धं किइकम्मं जो पगंजइ गुरूणं सोपावइ निव्वाणं अचिरेण विमाणवासंवा ॥१२०६॥
व्याख्या-पञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुई-तदविकलं कृतिकर्म यः कश्चित् 'प्रयुके करोतीत्यर्थः, कस्मै ?-'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्रामोति 'निर्वाणं' मोक्षम् 'अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः ॥ १२०६ ॥ द्वारं । 'कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशदोषविप्रमुक्त कर्तव्यं, नदोषदर्शनायाह
अणाढियं च थद्धं च, पविद्धं परिपिंडियं । टोलगइ अंकुसं घेव, तहा कच्छ भरिंगियं ॥१२०७॥ व्याख्या-'अनादृतम्' अनादरं सम्भ्रमरहितं वन्दते १ 'स्तब्ध' जात्यादिमदस्तब्धो वन्दते २ प्रविद्धं वन्दनकं दददेव नश्यति ३ 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् ४ 'टोलगति' तिडुवदुरप्लुत्य २ विसंस्थुलं वन्दते ५ 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगियं' कच्छपवत् रिणितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः ७ ॥ १२०७॥
मच्छुव्वत्तं मणसा पउलु तह य वेड्यावद्धं । भयसा चेव भयंतं, मित्ती गारवकारणा॥ १२०८॥ व्याख्या-'मत्स्योदत्तम् एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधं द्वितीयपार्चेन रेचकावर्तेन परावर्तते ८ मनसा प्रधुष्ट, वन्धो हीनः केनचिद्गुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते ९ तथा च वेदिकावद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोवा
श्वयोवो उत्सङ्गं वा एकं वा जानु करद्वयान्तः कृत्वा वन्दते १० 'भयसा वत्ति भयेन वन्दते, मा भूगच्छादिभ्यो निर्धाटनमिति ११, 'भयंत'ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति १२, 'मेसित्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते १३ 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं १४, कारण ति ज्ञानादिव्यतिरिकं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति १५, अयं गाथार्थः ॥ १२०८॥
तेणियं पडिणियं घेव, रुठं तज्जियमेव य । सहं च हीलियं घेव, तहा विपलिउंचियं ॥ १२०९॥ व्याख्या-'स्तैन्य'मिति परेभ्यः खल्यात्मानं गृहयन् स्तेनक इव धन्दते, मा मे लाघवं भविष्यति १६, 'प्रत्यनीकम्' माहारादिकाले वन्दते १७, 'रुष्ट' क्रोधाध्मातं धन्दते क्रोधामातो वा १८, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्-निर्भर्सयन् वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् १९, 'शठं' शाठ्येन विश्रम्भार्थ धन्दते, ग्लानादिव्यपदेशं या कृत्वा न सम्यग् वन्दते २०, हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति २२, इति गाथार्थः॥ १२०९॥
दिठमदिहं च तहा, सिंगं च करमोअणं । आलिहमणालिहूं, ऊणं उत्तरचूलियं ॥ १२१०॥ व्याख्या दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३ 'शृङ्गम्' उत्तमाङ्गैकदेशेन वन्दते २४ 'करमोचन करं मन्य मानो वन्दते न निर्जरां, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति वंदणगं देइ २५-२६ आश्लि. टानाश्लिष्ट'मित्यत्र चतुर्भङ्गका-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः २ शिरो न रजोहरणं ३ न रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः २७, 'उन' व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते २८, 'उत्तरचूड' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः २९ ॥ १२१०॥
मूयं च बहरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्ध, किहकम्मं पउंजई ॥ १२११ ॥ व्याख्या-'भूकम्' आलापकाननुच्चारयन् वन्दते २० 'ढड्डरं' महता शब्देनोच्चारयन् वन्दते ३१ 'चुडुली'ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म' वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः ॥ १२११ ॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह चकिडकम्मपि करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ॥ १२१२॥ व्याख्या-कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशदोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ १२१२ ॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोसपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवासं वा ॥ १२१३ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org