________________
35 भावश्यकहारिभद्रीया अहव वंदावे ॥२॥" तथाऽऽलोचनायां विहारापराधभेदभिन्नायां 'संवरणं' भुक्तेः प्रत्याख्यानम् , अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ १२०० ॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्याप्रदर्शनायाऽऽहचत्सारि पडिफमणे किहकम्मा तिमि हुंति सज्झाए । पुव्वण्हे अवरहे किइकम्मा चउदस हवंति ॥ १२०१॥ __ व्याख्या-चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीगि भवन्ति स्वाध्याये पूर्वाहे-प्रत्युषसि, कथं ?, गुरु पुषसंझाए वंदित्ता आलोपइत्ति एवं एकं, अम्भुठियावसाणे जे पुणो वंदंति गुरुं एयं विइयं, एत्थ य विही-पच्छा जहण्णेण तिण्णि मझिम पंच वा सत्त घाउकोसं सबेवि वंदियबा, जइवाउला वक्खेवो वा तो इक्केण ऊणगा जाव तिणि अवस्सं वंदियघा, एवं देव सिए, पक्खिए पंच अवस्स, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविजइ तइय, पञ्चक्खाणे चउस्थ, सझाए पुणवदित्ता पठ्ठवेइ पढम, पढविए पवेदयंतस्स बितियं, पच्छा उद्दि समुद्दिई पढाइ, ससमुहेसवंदणाणमिहेवांतम्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइण पढिउकामोतोचंदर,
अथवा वादयेयुः ॥ गुरु पूर्वसन्ध्याय पम्वित्वाऽऽलोचयतीति एतदेक, अम्युस्थितावसाने परपुनर्वस्वन्ते गुरुमेतद्वितीय, मन्त्र च विधिः-पबाजघन्येन त्रयो मध्यमेन पञ्च वा सप्त वा उत्कृष्टेन सर्वेऽपि वन्दितव्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना यावत् प्रयोऽवश्यं वन्दितव्याः, एवं देवसिके, पाक्षिके पञ्चावश्यं, चातुर्मासिके सांवत्सरिकेऽपि सप्तावश्यमिति, तान् वन्दिरवा यत्पुनराचार्यायाश्रयणाय दीयते तत्तृतीयं, प्रत्याख्याने चतुर्थ, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथम, प्रस्थापिते प्रवेदयतो द्वितीयं, पश्चादुद्दिष्टसमुदिष्टं पठति, उद्देशसमुदेशवन्दनानामिहैवान्तर्भावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिलेखयति, यदि न पठितुकामस्तदा वन्दते. अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउँ पडिक्कमइ, एयं तइयं । एवं पूर्वाहे सप्त, अपराहेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्, प्रातिक्रमणिकानि तु चत्वारि प्रसिद्धानि, एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति गाथार्थः ॥ १२०१ ॥ गतं कतिकृत्वोद्वारं, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याचं द्वारं, तदर्थप्रतिपादनायाऽऽह
दोओणयं अहाजायं, किइकम्मं बारसावयं । अस्य व्याख्या-अवनतिः-अवनतम् , उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम्, एकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउँ जावणिजाए निस्सीहियाए'त्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः 'इच्छामी'त्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्मवन्दनं, 'बारसावर्य'ति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद् द्वादशावर्तम्, इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, 'अहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुमुभेण भे दिवसो वइकतो !, जत्ता भे जवणिज्जं च भे' एतत्सूत्रगर्भा गुरुचरण
अथ पठितुकामस्तदाऽवन्दित्वा पात्राणि प्रतिलिखति, प्रतिलिख्य पश्चात्पठति, कालवेलायां वन्दित्वा प्रतिकाम ति, एतत्तृतीयं. * गाथाशकलमाह. न्यस्तहस्तशिरःस्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वार, साम्प्रतं 'कतिशिर इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह
चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ १२०२॥ व्याख्या-चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिम्रो गुप्तयो यस्मिंस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् कायेनावर्तान विराधयन् वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिंस्तद्विप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः ॥ १२०२॥ साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधीयते, तथा चाऽऽहअवणामा दुन्नऽहाजायं, आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ, तिन्नि दो य पवेसणा ॥१२०३ ॥ एगनिक्खमणं चेव, पणवीसं वियाहिया। आवस्सगेहिं परिसुद्धं, किइकम्म जेहि कीरई ॥१२०४ ॥
व्याख्या-गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् , अन्यथा द्रव्यकृतिकर्म भवति ॥ १२०३-१२०४ ॥ आह च
* निर्ग..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org