________________
34
आवश्यक हारिभद्रीया
सुतं वाउवज्झाओ ॥ १ ॥ तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, उक्तं च- 'तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणतसिल्लो पवत्ती उ ॥ १ ॥' अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तं च- 'थिरकरणा पुण थेरो पवन्तिवावारिएसु अत्थेसुं । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥' अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थे । नावगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः - 'उद्धार्वणापहावणखित्तोवधिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ १ ॥' अस्थाप्यून पर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः - पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति - प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः ॥ ११९५ ॥ प्रथमद्वारगाथायां गतं 'कस्ये' ति द्वारम् अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं ? केन वा न कर्तव्यं १, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकारः
मायरं पियरं वावि जिगं वावि भायरं । किइकम्मं न कारिजा सव्वे राइणिए तहा ॥ ११९६ ॥
१ सूत्रं वाचयति उपाध्यायः ॥ १ ॥ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्त्ति (चेक) स्तु ॥ ३ ॥ स्थिर करणात्पुनः स्थविरः प्रवर्त्तक व्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्व लस्तं स्थिरं करोति ॥ ४ ॥ * सीदमानान् + मूलग्रन्येऽवगन्तव्यः । अभिदधति. २ उद्धावनप्रधावना क्षेत्रोपधिमार्गणास्वविपाठी । सूत्रार्थतद्भयन्त्रित गणावच्छेदक ईदृशो भवति ॥ १ ॥
व्याख्या - मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, 'कृतिकर्म' अभ्युस्थितवन्दनमित्यर्थः, न कारयेत् सर्वान् रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः किमिति १, मात्रादीन् वन्दनं कारयतः लोकगर्होपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत्, सागारिकाध्यक्षे तु यतनया कारयेद्, एष प्रव्रज्याप्रतिपन्नानां विधिः, गृहस्थाँस्तु कारयेदिति गाथार्थः ॥ ११९६ ॥ साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाह -
पंचमहव्वयजुत्तो अणलस माणपरिवज्जियमईओ । संविग्गनिज्जरही किहकम्मकरो हवह साहू ॥ ११९७ ॥ व्याख्या - पञ्च महाव्रतानि - प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः 'अणलस'त्ति आलस्यरहितः 'मानपरिवर्जित - मतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः' प्राग्व्याख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥ ११९७ ॥ गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं १, तत्र
वक्त्तपराहुत्ते अपमन्ते सा कया हु वंदिजा । आहारं च करिंतो नीहारं वा जइ करेइ ॥ ११९८ ॥ व्याख्या - व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखं, चशब्दादुद्भू (त्थि ) तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीषानिर्गमनादोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः ॥ ११९८ ॥ कदा तर्हि वन्देतेत्यत आह
पसते आसणत्थे य, उवसंत उषट्टिए । अणुन्नविन्तु मेहावी, किइकम्मं पजए । ११९९ ॥
व्याख्या- ' प्रशान्तं' व्याख्यानादिव्याक्षेपरहितम् 'आसनस्थं' निषद्यागतम् 'उपशान्तं' क्रोधादिप्रमादरहितम् 'उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिकर्म प्रयुञ्जीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः ॥ ११९९ ॥ गतं कदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्य १, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकार :
पडिकैमणे सझाए काउस्सगावरोह पाहुणए । आलोयणसंवरणे उत्तम य वंदणयं ॥ १२०० ॥ व्याख्या - प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः, तस्मिन् सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगति परिभोगायाऽऽचाम्लविसर्जनार्थं क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्र चायं विधिः - 'संभोईय अण्णसंभोइया य दुविहा हवंति पाहुणया । संभोइय आयरियं आपुच्छित्ता उ वंदेइ ॥ १ ॥ इयरे पुण आयरियं वंदित्ता संदिसावि तह य । पच्छा वंदेइ जई गयमोहा
१ सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकान् आचायें आपृच्छय तु वन्दते ॥ १ ॥ इतरान् पुनराचार्य वन्दित्वा संदिश्य तथा च । पश्चात् वन्दन्ते यतयो गतमोहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org