SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया तितुकामस्य, तथा च-अयतितुकामो यद् यत्पश्यति लोके नित्यवासादि तत् तदालम्बनं करोतीति गाथार्थः ॥११८८॥ कि च-द्विधा भवन्ति प्राणिनः-मन्दश्रद्धास्तीवश्रद्धाश्व, तत्रान्यन्मन्दश्रद्धानामालम्बनम् अन्यच्च तीघ्रश्रद्धानामिति, आह च जे जत्थ जया जइया पहुस्सुया धरणकरणपब्मट्ठा । जं ते समायरंती आलंबण मंदसड्डाणं ॥ १९८९ ॥ व्याख्या-'गे' केचन साभवः 'यत्र' ग्रामनगरादौ 'यदा' यस्मिन् काले सुषमदुप्पमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहताश्चरणकरणप्रवष्टाः सन्तो यत्ते समाचरन्ति पाश्वेस्थादिरूपं तदालम्बनं मन्दश्रद्धानां. भवतीति वाक्यशेषः, तथाहि--आचार्यो मधुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः॥ ११८९ ॥ जे जन्थ जया जइया बहुस्मुया चरणकरणसंपन्ना । जं ते समायरंती आलंषण तिव्वसढाणं ॥ ११९० ॥ व्याख्या-'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः ॥ ११९०॥ अवसितमानुषङ्गिक, तस्मात् स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाह-- दसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ॥ ११९१ ॥ व्याख्या-'दसणनाणचरित्तेत्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निञ्चकालपासत्थ' तिमर्वकालं पार्थे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा च--इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ?-"यशोघातिनः' यशोऽभिनाशकाः, कस्य -प्रवचनस्य, कथं यशोघातिनः,श्रमणगुणोपात्तं यद यशस्तत्तद्गणवितथासेवनतो घातयन्तीति गाथार्थ: ॥ ११९१ ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाहकिइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उवहिया हुंति ॥११९२॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मधन्धाय, कथं १ यतस्ते पूंज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्थः स्थादयस्तानि तानि 'उपबृंहितानि भवन्ति' समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ॥ ११९२ ।। यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह दसणनाणचरित्ते तवविणए निच्चकालमुज्जत्ता। एएउ वंदणिज्जा जे जसकारी पवयणस्स॥११९३॥ ___ व्याख्या-दर्शनज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ॥ ११९३ ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह किहकम्मं च पसंसा संविग्गजणंमि निजरट्टाए। जे जे विरईठाणा ते ते उववूहिया हुंति ॥ ११९४ ॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-योनि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तहनुमत्या च निर्जरा, संविग्नाः पुनद्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः ॥ ११९४ ॥ गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपश्वं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचायोदिभेदतोऽभिधित्सुराह आयरिय उवज्झाए पश्यत्ति धेरे तहेव रायणिए । एएसिं किइकम्म कायव्वं निजरहाए ॥ ११९५ ॥ व्याख्या-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थ, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तंच-सत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुको अर्थ भासेइ आयरिओ ॥१॥ न तु सूत्र, यत उक्तम्-'एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ । आणाधिजमिइ । गुरू कयरिणमुक्खा न वाएइ ॥१॥ अस्य हि सर्वैरेवोपान्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः त्थम्भूतः-'सम्मत्तणाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सत्तं वाएउवज्झाओ ॥१॥' किं निमित्तं ?-सुत्तत्थेसु थिरतं रिणमुक्खो आयतीयऽपडिबंधो । पाडिच्छामोहजओ । सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणततिविप्रमुक्तोऽर्थे वाचयत्याचार्यः ॥ १॥ एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: । भाशास्यैमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ॥१॥सम्यक्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्र वाचयति उपाध्यायः ॥ १॥ सुनार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यां चाप्रतिबन्धः । मातीच्छकमोहजयः (प्रतीच्छनारमोहजयः) * • पने विचलति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy