SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 32 आवश्यकहारिभद्रीया व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्ष भिक्षाचर्यायाम् अपच्चल:-असमर्थः भिक्षाचर्याऽपञ्चलस्तं 'स्थधिरं दृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, शा-मायाविनः आर्यिकालाभं 'गवेसंति'त्ति अन्विषन्त इति गाथार्थः ॥ ११८४ ॥ गतमार्यिकालाभद्वारं, विगतिद्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो ऽवजपडिच्छन्ना उदायणरिसिं वइसंति ॥ ११८५ ॥ व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि 'भुक्त्वा' उपभुज्य 'लावलवियन्ति लौल्योपेतम् 'अविशुद्धं' विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बलाणेइ॥१॥"ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः॥११८५॥ अत्र कथानकवीतभए णयरे उदायणो राया जाव पषइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवइयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिज्जो केसी राया, तेणं चेव रज्जे ठाविओ, विगतिविकृतिभीतो विकृतिगतं यस्तु भुक्ते साधुः । विकृतिविकृतिखभावा विकृतिर्विगतिं बलानयति॥१॥वीतभये नगरे उदायनो राजा यावत्प्रअजितः, तस्य भिक्षाहारस्य व्याधिजोतः, स वैद्यैर्भणितः-दना मुक्तः स किल भट्टारको व्रजिकासु स्थितः, अन्यदा वीतभयं गतः, तत तम्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः. केसीकुमारोऽमच्चेहिं भणिसो-एस परीसहपराजिओ रज मग्गइ, सो भणइ-देमि, ते भणंति-ण एम रायधम्मोत्ति बुग्गाहेइ, चिरेण पडिस्सुयं, किंकजउ, विसं तस्स दिज्जउ, एगाए पसुपालीए घरे पयुत्त-दधिणा सह देहित्ति, मा पदिण्णा, देवयाए अवहियं, भणिओ य-महरिसि! तुझ विसं दिण्णं, परिहराहि दहिं, सो परिहरिओ, रोगो काँधिउमारद्धो, पुणो पगहिओ, पुणो पउत्तं विसं, पुणो देवयाए अवहरियं, तइयं वारं देवयाए वुच्चइ-पुणोवि दिण्णं, तंपि अवडियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेजातरो कुंभगारो, तमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अणवराहित्तिका सिणवल्लीए कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरि ठविओ, बीतभयं च सर्व पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकहु न होइ सधेसिमालंबणंति ॥ आह चसीयललुक्खाऽणुचियं यएसु विगईगएण जावित। हट्ठावि भणंति सढा किमासि उदायणो न मुणी? ॥११८६ ॥ केशिकुमारोऽमात्यैर्भणित.-एष परीपहपराजितः राज्य मार्गयति, स भणति-ददामि, ते भणन्ति-नष राजधमै इति न्युह्राहयति, चिरेण प्रतिश्रुतं, किं क्रियता ?, विर्ष तस्मै ददातु, एकस्याः पशुपाल्या गृहे प्रयुक्त वनासह देहीति, सा प्रदत्तवती, देवतयाऽपहृतं, भणित ब-महर्षे ! तुभ्यं विषं दतं, परिहर दधि, स परिहतवान् , रोगो वर्धितुमारब्धः, पुन: प्रगृहीतं, पुनः प्रयुक्तं विषं, पुनर्देवतयाऽपहृतं, तृतीयवारं देवतयोच्यते. तुनरपि दरां, तदपि अपहृत, सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायो दत्तं, कालगतः, सस्य व शय्यातरः कुम्भकारः, तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकरवा सेनापल्या कुम्भकारोरक्षेपो नाम पत्तनं तस्य माना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सई पांमुना प्रेरितं, अद्यापि पशिवस्तिष्ठन्ति, एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति. * सो पढिविण्णा. + वद्धिउ. व्याख्या-शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः-अननुरूपः,नरेन्द्रप्रवजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'हठ्ठावित्ति समर्था अपि भणन्ति शठा:-किमासीदुदायनो न मुनिः, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मान्निदोष एवायमिति ॥ ११८६ ॥ एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाह सुत्तत्थबालवुढे य असहुदवाइआवईओ या। निस्साणपयं काउं संथरमाणावि सीयंति ॥ ११८७ ॥ व्याख्या-सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान् , तथाऽसहश्च द्रव्याधापदश्च असहद्रव्याद्यापदस्ताश्च, निश्राणाम्-आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि' संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन ?, एवमर्थ निश्रापदं कृत्वा शृणोमि तावत्, एवं बालत्वं वृद्धत्वं असहम्-असमर्थत्वमित्यर्थः, एवं द्रव्यापदं-दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं-क्षुल्लकमिदं क्षेत्रं, तथा कालापदं-दुर्भिक्षं वर्तते, तथा भावापदं-लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः ॥११८७॥ एवम्आलंयणाण लोगो भरिओ जीवस्स अजउकामस्स । जं जं पिच्छह लोए तं तं आलंयणं कुणइ ॥ ११८८ ॥ व्याख्या-'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोक' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउकामस्स'त्ति अय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy