SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 24 आवश्यक हारिभद्रीया सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्भुवा समनुज्ञेति गाथार्थः ॥ ११३२ ॥ पुनरप्याह चोदकः जह सावजा किरिया नत्थि य पडिमासु एवमियराऽवि । तयभावे नत्थि फलं अह होइ अहेउगं होइ ॥ ११३३ ॥ व्याख्या- यथा सावद्या क्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपि - निरवद्याऽपि नास्त्येव, ततश्च ' तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम्, अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रण म्यवस्तुगत क्रिया हेतुकत्वा (भावा) त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः ॥ ११३३ ॥ इत्थं चोदकेनोक्ते सत्याहाचार्यः कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए । तीइ पुण मणविसुद्धीइ कारणं होंति पडिमाउ || १९३४ || व्याख्या- 'कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् 'अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि - स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं किं प्रतिमाभिरिति, उच्यते, तस्याः पुनर्मनोविशुद्धेः ‘कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः ॥ ११३४ ॥ आह एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येवेति, उच्यते जवि पडिमा जहा मुणिगुणसंकष्पकारणं लिंगं । उभयमवि अत्थि लिंगे न य पडिमाभयं अत्थि ॥ ११३५ ॥ व्याख्या - यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा - प्रतादयस्तेषु सङ्कल्पः - अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणं-निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्ग' द्रव्यलिङ्ग, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गसावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति चेष्टारहितत्वात् ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्य कर्मरहितत्वात् प्रतिनाम्, आह-इत्थं र्ह निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति उच्यते, तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः ॥ ११३५ ॥ तथा चाऽऽह— " नियमा जिणेसु उगुणा पडिमाओ दिस्स जे मणे कुणइ । अगुणे उ वियाणंतो कं नमउ मणे गुणं काउं ? ।। ११३६ ॥ व्याख्या – 'नियमादि'ति नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्यासस ङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणेउ' इत्यादि अगुणानेव, तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अववुध्यमानः पार्श्वस्थादीन् 'कं नमउ मणे गुणं कार्ड' कं मनसि गुणं कृत्या नमस्करोतु तानिति?, स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारोपद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात्, अविषये चाध्यारोपं कृत्वा नमस्कुर्वतो दोपदर्शनाद् ॥ ११३६ ।। आह च- जह वेलंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निर्बंधसमिय नाऊण वंदमाणे धुवो दोसो ॥ ११३७ ॥ व्याख्या -यथा 'विडम्बकलिङ्ग' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोषः ' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् 'इय' एवं 'ज्ञात्वा' अवगम्यं 'वन्दमाणे धुवो दोसो' वन्दति - नमस्कुर्वति सति नमस्कर्तरि ध्रुवः - अवश्यंभावी दोष:- आज्ञाविराधनादिलक्षणः, पाठान्तरं वा- 'निबंधसंपिाऊणं वंदमाणस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः ॥ ११३७ ॥ एवं न लिङ्गमात्रमकारणतोऽवगत सावद्य क्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्ग र हितमित्थमेवावगन्तव्यं, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्, रूपकदृष्टान्तश्चात्र, आह च रूपं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुपहंपि समाओगे रूवो छेयत्तणमुवेह ॥ ११३८ । व्याख्या - अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टङ्कं समाहताक्षरमिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्ककल्पं द्रव्यलिङ्गम्, इह च प्रथमभङ्गतुल्याश्चर कादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy