SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया 23 सम्प्रकटसेवी न भवत्यपि अतस्तग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाधार्थः ॥ ११२६ ॥ किं तत्क्रियत इत्यत आह वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ।। ११२७ ॥ व्याख्या- 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो 'त्ति नमस्कारः क्रियते - हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं 'ति[हुमानस्त ] सन्निधावासनं कञ्चित्कालमिति, एष तावद्वहिर्दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ॥ ११२७ ॥ एतच्च वाङ्गमस्कारादि नाविशेषेण क्रियते, किं तर्हि ? - परियायपरिसपुरिसे वित्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥ ११२८ ॥ व्याख्या - पर्यायश्च परिपञ्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं 'णच्च'त्ति ज्ञात्वा - विज्ञाय ‘कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथा है' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्यं' समनुरूपं वाङ् मस्कारादि तत्तस्य क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥ ११२८ ॥ साम्प्रतमवयवार्थं प्रतिपादयन्नाह भाष्यकारः-परिमाय वंभचेरं परिस विणीया सि पुरिस चा था। कुलकज्जादायत्ता आघवउ गुणागमसुर्यं वा ॥ २०४ ॥ (भा० ) व्याख्या- 'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा तत्प्रतिबद्धा साधुसंहतिः शोभना 'से' अस्य 'पुरिस णच्चा वत्ति पुरुषं ज्ञात्वा वा अनुस्वारलोपोत्र द्रष्टव्यः, कथं ज्ञात्वा ? - कुलकार्यादीन्यनेनायत्तानि आदिशब्दाङ्गणसङ्घ कार्यपरिग्रहः, ' आघवउ'त्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्वलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणाssगमसुयं वत्ति गुणा-अयमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः - सूत्रार्थोभयरूपः श्रुतं - सूत्रमेव, गुणाश्चाssmer श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ २०४ ॥ ताई तो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमतादओ दोसा ।। ११२९ ॥ व्याख्या- 'एतानि' वाङ्नमस्कारादीनि कपायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हदशिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह- 'अभत्तिमतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः ॥ ११२९ ॥ एवमुद्यतेतरविहारिगते विधौ प्रतिपादिते सत्याह चोदकःकिं नोऽनेन पर्यायाद्यन्वेपणेन ?, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् न हि तगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयरेति नमतो सो पावइ निज्जरं विउलं ॥ ११३० ॥ व्याख्या - तीर्थकरस्य गुणा - ज्ञानादयस्तीर्थ करगुणाः ते 'प्रतिमासु' विम्बलक्षणासु 'णत्थि' न सन्ति 'निःसंशयं संशपरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' प्रणमन् 'स' प्रणाम कर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णामिति गाथार्थः ॥ ११३० ॥ एष दृष्टान्तः, अयमर्थोपनयःलिंगं जिणपण्णत्तं एव नमंतस्स निज्जरा बिउला । जइवि गुणविप्पहीणं वंदद्द अज्झप्पसोहीए ॥ ११३१ ॥ व्याख्या - लिक्यते साधुरनेनेति लिङ्गं - रजोहरणादिधरणलक्षणं जिनैः - अर्हद्भिः प्रज्ञप्तं प्रणीतम् ' एवं ' यथा प्रतिमा इति 'नमस्कुर्वतः ' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' 'चेतःशुद्धयेति गाधार्थः ॥ ११३१ ॥ इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वैषम्यमुपदर्शयन्नाचार्य आह संता तित्रगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुमन्ना ॥ ११३२ ॥ व्याख्या—'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थ करगुणा - ज्ञानादयः, क्व ? - 'तीर्थकरे' अर्हति भगवति इयं व प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झप्पं तेषां नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' 'चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'धुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह- 'समणुमण्णा' समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावद्य क्रियानुमतिरिति हृदयम्, अथवा सन्तस्तीर्थकर - गुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम् इदं चेतः, ततोऽर्हगुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः नव Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy