SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 22 आवश्यक हारिभद्रीया व्याख्या - खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्धं मीलितः सन् 'प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहाणिः - अपचयः गुणपरिहाणिः तां तथैहिकांश्चापायांस्तत्कृतदोषसमुत्थानिति, मीलनदोपानुभावेनेति गाथार्थः ॥ ११२० ॥ यतश्चैवमतः खणमवि न खमं काउं अणाग्रयणसेवणं सुविहियाणं । हंदि समुहमइगयं उदयं लवणत्तणमुवेइ ॥ ११२१ ॥ व्याख्या - लोचननिमेषमात्रः कालः क्षणोऽभिधीयते तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षमं ' न योग्यं, किं ? - 'काउं अणाययण सेवणं' ति कर्तु - निष्पादयितुम् अनायतनं- पार्श्वस्याद्यायतनं तस्य सेवनं - भजनम् अनाय तनसेवनं, पां? - 'सुविहितानां साधूनां किमित्यत आह- 'हन्दि ' इत्युपदर्शने, समुद्रमतिगतं - लवणजलधिं प्राप्तम् 'उदकं ' मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोपसमुद्रं प्राप्तस्तद्भावमाप्नोति, अतः पर लोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं - येऽपि पार्श्वस्थादिभिः सार्द्ध संसांगं कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति । अत्राऽऽह — सुविहिय दुग्विहियं वा नाहं जाणामि हं खु छउमत्थो । लिंगं तु पूययामी तिगरणसुद्रेण भावेणं ॥ ११२२ ॥ व्याख्या - शोभनं विहितम् - अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्धाशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्व ज्ञविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्थः, अतो 'लिङ्गमेव' रजोहरणगोच्छप्रतिग्रहधरणलक्षणं 'पूजयामि' वन्दे इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेति गाथार्थः ॥ ११२२ ॥ अत्राचार्य आह जह ते लिंग पमाणं वंदाही निण्हवे तुमे सब्वे । एए अवदमाणस्स लिंगमवि अप्पमाणं ते ॥ ११२३ ॥ व्याख्या—'यदी' त्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव लिङ्ग-द्रव्यलिङ्गम्, अनुस्वारोऽत्र च लुप्तो वेदितव्यः, प्रमाणंकारणं चन्दनकरणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निहवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान्, द्रव्यलिङ्गयुक्तत्वात् तेषामिति, अथैतान् मिथ्यादृष्टित्वान्न वन्दसे तत् ननु 'एतान्' द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतः लिङ्गमध्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ॥ ११२३ ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकः जह लिंगमप्पमाणं न नज्जई निच्छरण को भावो ? । दद्दूण समणलिंगं किं कायव्वं तु समणेणं ? ॥ ११२४ ॥ व्याख्या -- यदि 'लिङ्गं' द्रव्यलिङ्गम् 'अप्रमाणम्' अकारणं वन्दनप्रवृत्तौ, इत्थं तर्हि 'न ज्ञायते' नावगम्यते ' निश्चयेन' परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः १, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्गं' साधुलिङ्गं किं पुनः कर्तव्यं 'श्रमणेन' साधुना १, पुनः शब्दार्थस्तुशब्दो व्यवहितश्चोतो गाथानुलोम्यादिति गाथार्थः ॥ ११२४ ॥ एवं चोदकेन पृष्टः सन्नाहाचार्यः - अप्पु दद्दणं अडाणं तु होइ कायव्यं । साहुम्मि दिट्ठपुब्वे जहारिहं जस्स जं जोग्गं ॥ ११२५ ॥ व्याख्या- 'अपूर्वम्' अदृष्टपूर्व, साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानमभ्युत्थानम् - आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यं किमिति १, कदाचिदसौ कश्चिदाचार्यादिर्विद्याद्यतिशयसम्पन्नः तत्मदानायैवाऽऽगतो भवेत्, प्रशिष्य सकाशमाचार्यका लकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा- उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि साधौ 'दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सतः किञ्चित्कर्तव्यमिति गाथार्थः ॥ ११२५ ॥ साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह मुक्कधुरा संपागडसेवीचरणकरणपन्भट्ठे । लिंगावसेस मित्ते जं कीरइ तं पुणो वोच्छं ॥ ११२६ ॥ व्याख्या - धूः - संयमधूः परिगृह्यते, मुक्ता - परित्यक्ता धूर्येनेति समासः, सम्प्रकटं-प्रवचनोपघातनिरपेक्षमेव मूलोतरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्वासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं - व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्धयादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टः - अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सप्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेष - मात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ? - कारणापेक्षं-कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये - अभिधास्ये, कारणाभावपक्षे तु प्रतिपेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचि - Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy