________________
21
आवश्यकहारिभद्रीया पवयणे भवंति, जो पुण परिहरइ सो पुजो साइयं अपज्जवसियं च णेवाणं पावइ, एवं संसग्गी विणासिया कुसीलेहिं । उक्तं च-'जो जारिसेण मित्तिं करेइ अचिरेण(सो)तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधया होंति ॥१॥' मरुएत्ति दिलुतो गओ, व्याख्यातं द्वारगाथाशकलम्, अधुना वैडूर्यपदव्याख्या, अस्य चायमभिसम्बन्धः-पार्श्वस्थादिसंसर्गदोषादयन्दनीयाः साधयोऽप्युक्ताः, अत्राह चोदक:-कः पाश्वेस्थादिसंसगेमात्राद्गुणव
सुचिरंपि अच्छमाणो वेरुलिओ कायमणीयउम्मीसो। नोवेइ कायभावं पाहण्णगुणण नियएणं ॥ १११३ ॥ व्याख्या-'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् वैडूर्यः-मणिविशेषः, काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकास्तैरुत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं' काचधर्म 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपि शीलगुणेनात्मीयेन न पार्श्वस्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः ॥ १११३ ॥ अत्राहाऽऽचार्य:-यत्किञ्चिदेतत् , न हि दृष्टान्तमात्रादेवाभिलषिताथसिद्धिः संजायते, यतःभावुगअभावुगाणि य लोए दुविहाणि होंति व्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नव्वेहिं॥१११४॥ व्याख्या-भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-कवेलुकादीनि,प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, लषपतपदस्थाभूवृपेत्यादावुकञ् (पा. ३-२-१५४) तस्य
प्रवचने भवन्ति, यः पुनः परिहरति स पूज्यः साद्यपर्यवसानं च निर्वाणं प्राप्नोति, एवं संसर्गी विनाशिका कुशीलैः । यादृशेन मैत्री करोति अचिरेग (सः) तादृशो भवति । कुसुमैः सह वसन्तः तिला अपि तद्गन्धिका भवन्ति । । । मरुक इति दृष्टांतो गतः *त्यादावु द्विः 'यो प्र. ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च-नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः॥ १११४ ॥ स्यान्मतिः-जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत् , यतः-- जीवो अणाइनिहणो तम्भावणभाविओ य संसारे । खिरपं सो भाविजइ मेलणदोसाणुभावेणं ॥ १११५ ॥
व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं' शीघ्र स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ १११५॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु
अंबस्स य निवस्स य दुहंपि समागयाई मूलाई । संसग्गीइ विणहो अंयो नियत्तणं पत्तो ॥ १११६ ॥ व्याख्या-चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः, पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसा' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः-तिक्तफलः संवृत्त इति गाथार्थः ॥ १११६ ॥ तदेवं संसर्गिदोपदर्शनात्त्याज्या पार्श्वस्थादिसंसर्गिरिति। पुनरप्याह चोदकः-नन्वेतदपि सप्रतिपक्षं, तथाहिसुचिरंपि अच्छमाणो नलथंभो उच्छवाडमज्झंमि। कीस न जायइ महरो? जइ संसग्गी पमाणते ॥१११७॥
व्याख्या-'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्बः' वृक्षविशेषः 'इक्षुवाटमध्ये' इक्षुसंसर्यो किमिति न जायते मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः॥१११७ ॥ आहाचार्यः-ननु विहितोत्तरमेतत् 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसया क इव दोप इति ?, उच्यते
ऊणगसयभागेणं किंवाई परिणमंति तब्भावं । लवणागराइसु जहा वजेह कुसीलसंसरिंग ॥१११८ ॥ व्याख्या-ऊनश्चासौ शतभागश्चोनशतभागोऽपि न पूर्यत इत्यर्थः, तेन तावताउंशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमाद्गम्यते 'बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्तीत्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्भाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पाश्वस्थाद्यालापमात्रसंसग्योऽपि सविहितास्तमेव भावं यान्ति, अतः 'वजेह कुसीलसंसग्गि' त्यजत कुशीलसंसर्गिमिति गाथार्थः ॥ १११८ ॥ पुनरपि संसर्गिदो. पप्रतिपादनायैवाऽऽह
जह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥ १११९॥ ___ व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः 'नामेति निपातः 'मधुरसलिलं' नदीपयः तलवणसमुद्रं 'क्रमेण' परिपाट्या सम्प्राप्तं सत् 'पावेइ लोणभावं' प्राप्नोति-आसादयति लवणभावं-क्षारभावं मधुरमपि सन् , मीलनदोषानुभावनेति गाथार्थः ॥ १११९ ॥
एवं खु सीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणिं मेलणदोसाणुभावेणं ॥ ११२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org