SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 25 आवश्यकहारिभद्रीया गच्छगता निर्गताच जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदधक्रियार्थिना नोपादीयते, चतुर्थभङ्गानिरूपित एवोपादीयते, एवं भङ्गात्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टङ्क विषमाहताक्षरंविपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटायोः समायोगे सति रूपकश्छेकत्यमुपैतीति गाथार्थः ॥ ११३८ ॥ रूपकदृष्टान्ते दाप्टोन्तिकयोजनां निदर्शयन्नाहरुप्पं पत्तेयबुहा टंक जे लिंगधारिणो समणा। व्वस्स य भावस्स य छेओ समणो समाओगे. ॥११३९॥ दारं ॥ . व्याख्या-रूपं प्रत्येकवुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टकं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटकशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः ॥११३९॥ व्याख्यातं सप्रपञ्च पैडूर्यद्वारं, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गवीजमिच्छति, यतः किल एवमागम:-'ज' अण्णाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेइ उसासमित्तेणं ॥१॥' तथा-'सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओऽवि संसारे ॥२॥' तथा-'णाणं गिण्हइ णाणं गुणेइ णाणेण कुणइ किच्चाई। भवसंसारसमुई यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी विभिगुंतःक्षपयस्युच्छ्वासमात्रेण ॥1॥सूचिर्यथा ससूत्रा न नश्यति कचवरे पतिताऽपि। जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥ २ ॥ ज्ञानं गृह्णाति ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । भवसंसारसमुद्रं ज्ञानी ज्ञाने स्थितस्तरति ॥३॥ णाणी णाणे ठिओ तरइ॥३॥ तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम् , अतो ज्ञानिन एव कृतिकर्म कायेम्, आहअनन्तरगाथायामेव द्रव्यभावसमायोगेश्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहकामं चरणं भावो तं पुण नाणसहिओ समाणेईन य नाणं तु न भावो तेण रणाणिं पणिवयामो॥११४०॥ _ व्याख्या-'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भाव' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधान, न घ ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः, ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः पूजयाम इति गाथार्थः ॥ ११४० ॥ यतश्च वाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा ण घज्झकरणं मझपमाणं न यावि चारित्तं नाणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं ॥११४१॥ व्याख्या-उस्मान्न 'वाह्यकरण' पिण्डविशुद्ध्यादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात्, अतो ज्ञानं मम प्रमाणं, सति तस्मिन् चरणस्यापि भावात्, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वादिति गाथार्थः ॥ ११४१ ॥ कि चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति ( तत्त्वार्थे अ० १ सू० १) वचनात् , तच्च दर्शनं द्विधा-अधिगमजं नैसर्गिकं च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनाऊण य सम्भावं अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गुग्गयावि न निरागमा दिट्टी ॥११४२॥ व्याख्या-'ज्ञात्वा च' अवगम्य 'सझावं' मतां भावः सद्भावस्तं, सन्तो जीवादयः, किम् ?-अधिगमात्-जीवादिपदार्थपरिच्छेदलक्षणात् सम्यक्त्वं-श्रद्धानलक्षणमधिगमसम्यक्त्वम् , इदमधिगमसम्यक्त्वमपि, अपिशब्दाचारित्रमपि, 'भवति जीवस्य जायते आत्मन इत्यर्थः, नैसर्गिकमाश्रित्याह-जातिस्मरणात् सकाशात् निसर्गेण-स्वभावेनोद्गता-सम्भूता जातिस्मरणजिसोद्गता, असावपि न 'निरागमा आगमरहिता 'दृष्टिः' दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनं च ज्ञानं तस्मादिदमपि ज्ञानायत्तोदयमितिकृत्या ज्ञानस्य प्राधान्यात् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम् , अयं गाथार्थः ॥ ११४२ ॥ इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यनाणं सविसयनिययं न नाणमिसेण कजनिष्फत्ती । मग्गण्णू दिढतो होइ सचिट्ठो अचिहो य ॥११४३ ॥ व्याख्या-'ज्ञान' प्रक्रान्तं, स्वविपये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिप्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, 'सचेष्टः' सव्यापारः 'अचेष्टश्च' अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिपुश्चेष्टदेशप्राप्तिलक्षणं कार्य गगनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन, तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमकि. योद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाशाहृदयार्थः ॥ ११४३ ॥ प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराह आउजनदृकुसलावि नट्टिया तं जणं न तोसेइ । जोगं अजूंजमाणी निंद विंसं च सा लहइ ॥११४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy