SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नोक्तः ?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्पपश्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्य मात्रादीनां तु न विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यद्येवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति?, अत्रोच्यते, हिताप्रवृत्तरहितप्रवृत्तिगुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-श्रमणं वन्देत मेधावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन् , तथा 'चाह__ पंचण्हं किइकम्मं मालामरुएण होइ दिह्रतो । वेरुलियनाणदंसणणीयावासे य जे दोसा ॥ ११०७ ॥ व्याख्या-'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेधावी संयत' मित्यादि ग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, तथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च-'असुइठाणे पडिया' इत्यादि, तथा 'पक्कणकुले' इत्यादि 'वेरुलियत्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च-'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबरस य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'णाण'त्ति दर्शनचारित्रासेवनसामर्थ्य विकला ज्ञानन 1 अशुचिस्थाने पतिता २ श्वपाककुले ३ सुचिरमपि तिष्ठन् वैडूर्य ४ आनस्य च निम्बस्य च यप्रथाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-'काम चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र णाणी पणिवयामो ॥१॥' इत्यादि, 'दसण'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः-- दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादंसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥१॥' इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी संगमथेरं ववइसति ॥ १॥' इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो।अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥ (प्र०) __व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्वे तिष्ठतीति पावस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,-'सो पासत्थो दुविहो सधे देसे य कामं चरणं भावस्तत् पुननिसहितः संपूरयति । न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि ॥१॥ २ यथा ज्ञानेन न विना चरणं नादर्शनिन इति ज्ञानम् । न च दर्शनं न भावस्तस्मात् ! दृष्टिमतः प्रणिपतामि १॥३यदापि च परितान्ता प्रामाकरनगरपत्तनमटन्तः । ततः केचित नित्यवासिनः संगमस्थविरं व्यपदिशन्ति ॥१॥( )४ स पार्श्वस्थो द्विविधा-सर्वस्मिन् देशे च होई णायवो । सबंमि णाणदसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥२॥ कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥ ३ ॥' अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽवि य दुविहो सके देसे य तत्थ सबंमि । उउबद्धपीढफलगो ठवियगभोई यणायबो ॥१॥' देशावसन्नस्तु-आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तढे। आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे॥१॥ आवस्सयाइ ण करे करेइ अहवाविहीणमधियाई । गुरुवयणबलाइ तथा भणिओ एसोय ओसनो ॥२॥ गोणो जहा पलंतो भंजा समिलं तु सोऽषि एमेव । गुरुययर्ण अकरतो बलाइकुईप उस्सूण्णो॥३॥'भयति कुशीला' कुत्सितं शीलमस्येति कुशीला,-तिषिहो होइ कुसीलो गाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पत्तो बीयरागेहिं ॥१॥णाणे णाणायारं जोउ पिराहेर कालमाईये । ईसणे भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्वे ॥१॥ देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा । नित्यं चामपिण्डं भुनक्ति निष्कारणेन च ॥ २॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ॥३॥ २ अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ॥१॥ आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभकार्थे। आगमने निर्गमने स्थाने च निपीदने त्वग्वर्त्तने ॥ १॥ आवश्यकादि न करोति अथवाऽपि करोति हीनाधिकानि (वा)। गुरुवचनबलात्तथा भगित पुष चादसमः ॥२॥ गौर्यथा वल्गन् भनक्ति समिला तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति वावसन्नः ॥३॥ विविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः॥१॥ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने णे चेव प्र. *उस्सोढं For Private & Personal Use Only www.jainelibrary.org Jain Education Intemational
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy