SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 19 आवश्यक हारिभद्रीया दसणायारं चरणकुसीलो इमो होइ ॥ २ ॥ कोउय भूईकम्मे परिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उबजीव विज्जमंताई ॥ ३ ॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिि ॥ ४ ॥ सुविणयविज्जाकहियं आईखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ॥ ५ ॥ तीयाइभावहणं होइ णिमित्तं इमं तु आजीवं । जाइकुल सिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥ ६ ॥ कक्ककुरुगा य माया णियडीए जं भणति तं भणियं । श्रीलक्खणाइ लक्खण विज्जामंताइया पयडा ॥ ७ ॥ ' ' तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च- 'संसत्तो य इदाणीं सो पुण गोभत्तलदए चेव । उच्चिद्यमणुच्चि जं किंची छुम्भई सवं ॥ १ ॥ एमेव य मूलत्तरदोसा गुणा जत्तिया केइ । ते तम्मवि सन्निहिया संसत्तो भण्णई तम्हा ॥ २ ॥ राय विदूसगमाई अहवावि णडो जहा उ बहुरूवो । १ दर्शनाचारं चरणकुशीलोऽयं भवति ॥ २ ॥ कौतुकं भूतिकर्म प्रश्नाप्रभं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामत्रादीन् ॥ ३ ॥ सौभाग्यादिनिमित्तं परेषां खपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥ ४ ॥ स्वमविद्याकथितमाइ ङ्खिनीघण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ॥ ५ ॥ अतीतादिभावकथनं भवति निमित्तमिदं व्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥ ६ ॥ कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः ॥ ७ ॥ संसक्तचेदानीं स पुनर्गोभक्तलन्दके चैव । उच्छि ष्टमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ॥ १ ॥ एवमेव च मूलोत्तरदोपाश्च गुणाश्व यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भव्यते तस्मात् ॥ २ ॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः । अहवा विमेलगो जो हलिद्दरागाइ बहुवण्णो ॥ ३ ॥ एमेत्र जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसन्तो भण्णई तम्हा ॥ ४ ॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकलित अण्णो || ५ || पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिडो संसत्तो संकिलिडो उ ॥ ६ ॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ॥ ७ ॥ एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च' यथाछन्दः - यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च- "रेस्सुत्तमायरंतो उस्सुतं चैव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगठ्ठा ॥ १ ॥ उस्सुत्तमणुवदिहं सच्छंदविगम्पियं अणणुबाइ । परतत्ति पवर्त्तिति णेओ इणमो अहाछंदो ||२|| सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंद ॥ ३ ॥ एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ॥ अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति १, उच्यते १ अर्थवाऽपि मेलको यो हरिद्वरागादिः बहुवर्णः ॥ ३ ॥ एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ॥ ४ ॥ स द्विविकरूपो भणितो जिनैर्जितरागद्वेपमोहैः । एकस्तु संक्लिष्टोऽसंक्लिष्टस्तथाऽन्यः ॥ ५ ॥ पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहिमिः संक्लिष्टः संसक्तः संक्लिष्ठः स तु ॥ ६ ॥ पार्श्वस्यादिकेषु संविनेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ॥ ७ ॥ २ उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एप तु यथाच्छन्द इच्छाछन्द इति एकार्थी ॥ १ ॥ उत्सूत्रमनुपदिष्टं स्वच्छन्द विकल्पितमननुपाति । परतसिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः || २ || स्वच्छन्दमतिविकल्पितं किञ्चित्सुखात विकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानाहि यथाच्छन्दम् ॥ ३ ॥ पात्थाई बंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ ११०८ ॥ व्याख्या – 'पार्श्वस्थादीन' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येचं लक्षणा सानभवति अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति काय:- देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्मज्ञानावरणीयादिलक्षणं तस्य वन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मवन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवामुते, कथं ? - भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥ ११०८ ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह - जे भरभठ्ठा पाए उडुंति बंभयारीणं । ते होंति कुंटमंदा बोही य सुदुलहा तेसिं ॥ ११०९ ॥ व्याख्या -ये- पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथैौघतः संयमवाचकश्च, 'पाए उड्डिति वंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दनिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यथाकथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy