SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ तनिय 225 आवश्यकहारिभद्रीया क्षेत्रवृद्धिः इति -एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश अन्तर्धानं स्मृत्यन्तद्धानं किं मया परिगृहीतं कया मयोदया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमा मत एव नियमभ्रंश इत्यतिचारः। एत्थ य सामाचारी-उर्दु जं पमाणं गहितं तस्स उवरिं पश्चतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमि वच्चेज्जा, तत्थ से ण कम्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अठ्ठावयहेमकुडसम्मेयसुपतिउज्जेतचित्तकूडअंजणगमंदरादिसु पडतेस भवेज्जा, एवं अधेवि कवियादिसु विभासा, तिरियं जंपमाणं गहितं तं तिविधेणवि करणेण णातिकमितबं, खेत्तवुड़ी सावगेण ण कायबा, कथं १, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्पतित्तिकातं अवरेण जाणि जोयणाणि पुषदिसाए संछुभति, एसा खेत्तवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होजा णियत्तियचं. विस्तारिते य भत्र च सामाचारी ऊर्च यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा श्रावकस्य वस्त्रमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि प्रजेत् , तत्र तस्य न कल्पते गन्तुं, यदा तु पतितं भन्येन वा मानीतं सदा कल्पते, इ पुनरष्टापदहेमकुण्डसमेतसुप्रतिष्टोजयन्तचित्रकूटाअनकमन्द. रादिषु पर्वतेषु भवेत् , एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन समातिक्रान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्तव्या, क्य,स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तष्प्रमाणं ततः परतो भाण्डमर्धतीतिकृस्वाऽपरस्यों यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्रवृद्धिस्तस्य न करूपते कत्त, स्याथद्यतिक्रान्तो भवेत् निवर्तितव्यं, विस्मृते च ण गंतवं, अण्णोवि ण विसजितबो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं तं ण गेण्हेजत्ति। [अं० २१००० ] उक्तं सातिचारं प्रथम गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्र उवभोगपरिभोगवए दुविहे पन्नत्ते तंजहा-भोअणओ कम्मओ अ । भोअणओ समणोवा० इमे पञ्च०सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभग्वणया तुच्छोसहिभ० दुप्पउलिओसहिभरवणया७॥ उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्तते, सकृद्रोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगःआहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति,अथवा बहिर्मोगःपरिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रत-उपभोगपरिभोगव्रतं, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्त, तद्यथेत्युदाहरणोपन्यासार्थः,भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः । इह चेथं सामाचारी-'भोयेणतो सावगो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवजं, तस्स असती अणंतकायबहुबीयगाणि परिहरितवाणि, न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यद्विस्मृतक्षेत्रे च गतेन लब्धं तत्र गृह्णीयात् इति । २ भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत् , तस्मिन्नसति अप्रासकमपि सचित्तवर्ज, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इमं च अण्णं भोयणतो परिहरति-असणे अणंतकावं अल्लगमूलगादि मंसं च, पाणे मंसरसमजादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयचं, जदा किर ण होज अचित्तो तो उस्सग्गेण भस पच्चक्खातितबंण तरति ताधे अववाएण सचित्तं अणंतकायबबीयगवज्ज, कम्मतोऽवि अकम्मा ण तरति जीवितं ताधे अश्चंतसावज्जाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-'भोयणतो समणोवामएण' भोजनतो यदूतमुक्कं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तथधा'सचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोपधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचिचो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्रं पृथिव्याचाहारयतीति भावना । तथा सचित्तप्रतिवद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा।तथा अपक्कौषधभक्षणत्वमिदंप्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि वा संमिश्रं, तथा दुष्पक्वौषधिभक्षणता दुष्पक्वा:-अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छ हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यहिकोऽप्यपायः सम्भाव्यते । एत्थ इदं चान्यत् मोजनतः परिहरति-अशनेऽनन्तकार्य आईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुबरवटपिप्पलप्लक्षादि स्वाचे मवादि, मचित्तं चाहर्तव्वं, यदा किल न भवेत् चित्त उत्सर्गेण मतं प्रत्याख्यातव्वं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्ज, कर्मतोऽप्य. कर्मा व शक्नोति जीवितुं सदाऽवम्तसावधानि परिट्रियन्ते । अत्र Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy