SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ . 224 आवश्यकहारिभद्रीया अपरिमितपरिग्गहं समणोवासतो पञ्चक्खाति' परिग्रहणं परिग्रहः अपरिमिता-अपरिमाणः तं श्रमणोपासका प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाण २ तदुपसम्पद्यते,सचित्तादिगोचरेछापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्रागवत् , सह चित्तेन सचित्तं-द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं-रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः। एत्थ य पंचमअणुवते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लडु विणटो नंदो सौवगो पूइतो भंडागारवती उवितो, अहवावि वाणिणी रतणाणि विकिणति छद्धाए मरंती, सडेण भणिता-एत्तिअपरिक्खओ णस्थि, अण्णस्स णीताणि, ताप भण्णति-जं जोग्गं तं देहि, सो पत्थं देड.मभिक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं , भणति-विकियाणि मए. कहं .सा भण-गोहमसेडयाए एकेक दिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ-रयणा अप्पेह परं वा मोर्ष देहि. सो नेच्छइ, तओ रणो मूलं गतो एरिसे अग्धे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढम पुण ताणि अत्र च पत्रमाणुवते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं-लोभनन्दः कुशीमूलिका लङ्गा विनष्टः, नम्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते-ईयस्परीक्षको नामि, अन्यस्य पा नीतानि, तया भण्यते-यद्योग्य सदेहि, स प्रस्थं ददाति, सुभिक्षे तस्या भर्ताऽऽगतः, पृच्छति-रखानि क ?, भणति-विक्रीतानि मया, कथं , सा भणति-गोधूमसेतिकर्यकैकं दत्सममुकस्मै वणिजे, स वणिक तेन भणितः-रखान्यर्पय पूर्ण वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः-देशेऽर्धे वर्तमाने एतस्यैतेनेयहतं, सविनाशितः प्रथमं पुनस्तानि रतणाणि सावगस्स विक्किणियाणि तेण परिग्गहपरिमाणाइरित्ताइंतिका न गहियाणि, सावगेण णेच्छितं, सो पूइतो। इदं चातिचाररहितमनुपालनीयं, तथा चाह-'इच्छापरिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः/तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तञ्च सेतुकेतुभेदाद् द्विभेदं, तत्र सेतुक्षेत्र अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधं. खातमुत्सृतं खातोच्छ्रितं च, तत्र खातं-भूमिगृहकादि उच्छृतं-प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यंरजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं, एतद्ग्रहणाचेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाधन्ये, धान्य-व्रीहिकोद्रवमुद्गमापतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि-दासीमयूरहंसादीनि, चतुष्पदानि-हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं-आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाञ्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवधातादि भणितधा। उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणवतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि १ रखानि शावकाय विक्रेतुं नीतानि, तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्या न गृहीतानि, श्रावकेण नेष्टं, स पूजितः, २ अत्र च दोपा जीवघातादयो भणितव्याः गुणप्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगवतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणवतस्वरूपाभिधित्सयाऽऽह दिसिवए तिविहे पन्नत्ते-उढदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो॰इमे पञ्च० तंजहाउड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे वित्तवुड्डी सइअंतरद्धा ६॥ (सूत्रं) दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशा संवन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्वतं, एतच्चौघतः त्रिविधं प्रज्ञ तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः,ऊर्ध्वादिग ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा प्रतं ऊर्ध्व दिगनतं,एतावती दिगूर्ख पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिगप्रतं-अर्वाग्दिगवतम् , एतावती दिगध इन्द्र कूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यग्दिशः-पूवोदिकास्तासां सम्बन्धि तासु वा प्रतं तियेग्व्रतं, एतावती दिग् पूर्वेणावगाहनीया एता न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-दिसिवयस्स समणो०' दिगव्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्ध्वदिप्रमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यदिक्प्रमाणातिवामः, क्षेत्रस्य वृद्धिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy