SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 226 आवश्यकहारिभद्रीया सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कोउएणं पोर्ट्स फालावितं केत्तियाओ खइताओ होजत्ति, णवरि फेणो अन्नं किंचि णत्थि, एवं भोजन इति गतं । अधुना कर्मतो यत् प्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह कम्मओ णं समणोवा० इमाई पनरस कम्मादाणाई जा०, तंजहा-इंगालकम्मे वणकम्भे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिले रसवाणिजे केसवाणिजे विसवाणिज्जे, जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया ७ ॥ (सूत्रं ) ॥ कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ग्या कर्मादानानी वद्यजीवनोपायाभावेऽपि तेषामत्कटज्ञानावरणीयादिकर्महेतृत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरितव्यानि । तद्यथेत्यादि पूर्ववत् , अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकरफोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्लाञ्छनदवदापनसरोइदादिपरिशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्त्वयं-'ईगालकमंति, इंगाला निद्दहितुं विकिणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्म-जो वणं किणति, १ शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बाः खादति, राजा निर्गच्छति, मध्याहे प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता 'भवेयुरिति, नवरं फेनः, अन्यस्किमपि नास्ति । २ अङ्गारकर्मेति-अङ्गारान् निर्दश विक्रीणाति तत्र पणा कायाना वास्तन्न करूपते, वनकर्म यो वनं क्रीणाति, पच्छा रुक्खे छिदित्तुं मुलेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयनणेण जीवति, तत्थ बंधवधमाई दोसा, माडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगं ण कप्पति, अण्णेसिं वा सगडं बलदे य न देति, एवमादी कातुंण कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज-पुर्वि चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं, एवं धीम्मरगाणं संखमुलं देंति, एवमादी ण कप्पति, पुषाणीतं किणति, लक्खवाणिज्जेऽवि एते चेव दोसा-तत्थ किमिया होंति, रसवाणिज-कलालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हा ण कपति, विसवाणिज-विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केसवाणिज्ज-दासीओ गहाय अण्णत्थ विकिणति जत्थ अग्धंति, एत्थवि अणेगे दोसा परवसत्तादयो, जैतपीलणकम्म-तेलियं जंतं उच्छजन्तं चक्कादि तंपिण कप्पते, णिलंछणकम्म-वद्धे गोणादि ण कप्पति, दवग्गिदावणताकम्म-वणदवं देति पश्चादृक्षान् छिपवा मूल्येन जीवति, एवं पण्याचाः प्रतिषिद्धा भवन्ति, शाकटिककर्म-शाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्मस्वकीयेन भाग्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीवदौं च न ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म-तुदत्रेण हलेन वा भूमिस्फोटनं, दन्तवाणिज्यं-पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, दन्तान् दद्यातेति, पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति अचिरात् स वणिक् भायास्यतीतिकृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्यं-कोलालावं सुरादि तत्र पाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विपवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवाणिज्य-दासीगृहीत्वाऽन्यत्र विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म-तैलिकं यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, मिलाउछनकर्म-वर्धयितुं गवादीन् न कल्पते, दवाग्निदापनताकर्म वनदवं ददाति -छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दड्ढे तरुणगं तणं उठेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसोसणताकम्मं-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म-असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतद् वहुसावद्यानां कर्मणां एवंजातीयानां, न पुनः परिगणनमिति भावार्थः। उक्तं सातिचारं द्वितीयं गुणवतं, साम्प्रतं तृतीयमाह अणत्थदंडे चउविहे पन्नत्ते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणस्थदंडवेरमणस्स समणोवा० इमे पञ्च० तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे ८॥ (सूत्रम् ) ___ अनर्थदण्डशब्दार्थः, अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो-भूतोपूमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्ड:-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तव्यापादने किश्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्य प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा-'अपध्यानाचरित' इति अपध्यानेनाचरितः अप १ क्षेत्ररक्षणनिमितं यथोत्तरापथे, पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तत्र सवानां शतसहस्राणां वधः, सरोहूदतटाकपरिशोप गताकर्म-सरोह्रदतटाकादीन् शोषयति, पश्चादुप्यन्ते, एवं न कपसे, असतीपोषणताकर्म-असतीः पोषयति यथा गौडविषये योनिपोषका दासीना भाटिं गृह्णन्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy