SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 221 आवश्यक हारिभद्रीया ये पसंसितो, एवमादिया गुणा मुसावादवेरमणे । इदं चातिचाररहितमनुपालनीयम्, तथा चाह - 'थूलगमुसावादवेरमणस्स' व्याख्या - स्थूलक मृषावादविरमणस्य श्रमणोपासकेनामी | पश्चातिचाराः ज्ञातव्याः | ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा - अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम् - असदध्यारोपणं, तद्यथाचौरस्त्वं पारदारिको वेत्यादि, रहः - एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति - एकान्ते मन्त्रयमाणान् वक्ति- एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेद:स्वदारमन्त्र [भेद ] प्रकाशनं स्वकलत्र विश्रब्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम् - असभूतं लिख्यत इति लेखः । तस्य करणं - किया कूटलेखक्रिया - कूटलेख करणं अन्यमुद्राक्षरबिम्बस्व रूपलेख करणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽन्भक्खाणं खलपुरिसो सुणेज्जा सो वा इतरो वा मारिज्जेज्ज वा, एवं गुणो, वेसित्ति भए अप्पाणं तं वा विरोधेज्जा, एवं रहस्सन्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भज्जाए सद्धि जाणि रहस्से बोलिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणम्-मथुरात्राणिगो दिसीयताए गतो, भज्जा सो जाघे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो आगतो, रतिं अन्नायवेसेण १ च प्रशंसितः, एवमादिका गुणा मृषावादविरमणे । २ सहसाऽभ्याख्यानं खलपुरुषः शृणुयात् स वेतरो वा मारयेत् एवं गुणः, द्वेषीति भयेनात्मानं तं वा विराधयेत् एवं रहोऽभ्याख्यानेऽपि स्वदारमन्त्रभेदे व आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात् सा रूजिताऽऽरमानं परं वा मारयेत् तत्रोदाहरणं - मथुरावणिक् दिग्यात्रायै गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता, स आगतः, रात्रौ अज्ञातवेषेण कंप्पडियत्तणेण पविसति, ताणं तद्दिवसं पगतं, कप्पडिओ य मग्गति, तीए य वहितबगं खज्जगादि, ताधे णियगपतिं वाहेति, अण्णातच जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सर्व कधेति, ता अप्पा मारितो । मोसुवतेसे परिधायगो मणुस्सं भणति - किं किलिस्ससि ?, अहं ते जदि रुच्चति णिसण्णो चेव दर्श विढवावेमि, जाहि किराडयं उच्छिष्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ता भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे उ हारितो जितो (न) दवावितो य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह - थूल अदत्तादाणं समणो०, मे अदिन्नादाणे दुविहे पन्नसे, तंजहा - सचित्तादत्तादाणे अचिन्तादत्तादाणे अ । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्या, तंजहा-तेनाहडे तरपओगे विरुद्ध रज्जा इक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ ॥ 1 कार्यटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं, कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाचकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गरखा महत्या ऋद्ध्या भागतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्वं तथाऽऽरमा मारितः । मृषोपदेशे परिव्राजको मनुष्यं भणतिकिं क्लाम्यसि ?, अहं ते यदि रोचते निषण्ण एव द्रव्यमुपार्जयामि, याहि किराटकं ( द्रव्यसमूहं ) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्ग्यसे, यदा च व्याकुलो 'जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितश्च कूटलेखकरणे भगिरथी अन्ये चोदाहरणानि व्याख्या – अदत्तादानं द्विविधं-स्थूल सूक्ष्मं च तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसापूर्वकं स्थूलं विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशी प्रसिद्धो निपातस्तच्छब्दार्थः तच्चादत्तादानं द्विविधं प्रज्ञप्तं - तीर्थकरगणधरैर्द्धिप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं - द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहण, अचित्तं वस्त्रकनकरत्नादि तस्यापि क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा १, एत्थ इमं चेवोदाहरणम्- जधा एगा गोही, सावगोऽवि ताए गोडीए, एगत्थ य पगरणं वट्टति, जणे गते गोडीलएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु पतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियषा १, थेरी भणति - एते पादे अंकिता, नगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सवा गोडी गहिता, एगो सावगो भणति - ण हरामिण छितोय, तेहिं भणितं-ण एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोर्डिंण पविसितवं, जं किंचिवि पयोयणेण १ अक्रियमाणे वा के गुणाः ?, अत्रेदमेवोदाहरणं यथैका गोष्ठी, श्रावकोऽपि तस्यां गोष्ठयां, एकत्र च प्रकरणं वर्त्तते, जने गते गोष्ठीकैर्गृहं लुटिर्स, स्वरको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः प्रभाते राशो निवेदितं, राजा भणति कथं ते ज्ञातव्याः १, स्थबिरा भणति - एते पादेव्यङ्किताः, नगरसमागमे दृष्टाः, द्वौ श्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणवि-न मुष्णामि न च छान्छितः, तैरपि भणितं नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावण गोटयां न प्रवेष्टव्यं यत् केनापि प्रयोजनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy