SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 14 आवश्यक हारिभद्रीया अस्य व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदे हिं निम्मलयर'त्ति, तत्र सकलकर्ममलापगमाच्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकार :-'चंदाइच्च गहाण 'मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवरः - स्वयम्भूरमणोऽभिधीयते परीपहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं-मातमेतेषामिति सिद्धाः, कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धिं परमपदप्राप्तिं 'मम दिसंतु' मम प्रयच्छन्त्विति सूत्रगाथार्थः ॥ ७ ॥ साम्प्रतं सूत्रस्पर्शिक नियुक्त्यैनामेव गाथां लेशतो व्याख्यानयन्नाह— चंदाच गहाणं पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो लोगालोगं पगासेइ ॥ ११०२ ॥ व्याख्या- 'चन्द्रादित्यग्रहाणा' मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योत्स्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मैरुद्योतयतीति गाथार्थः ॥ ११०२ ॥ उक्तोऽनुगमः, नयाः सामायिकवद् द्रष्टव्याः ॥ इति चतुर्विंशतिस्तवटीका समाप्तेति ॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः ॥ १ ॥ इति श्रीचतुर्विंशतिस्तवाध्ययनं सभाष्यनिर्युक्त्तिवृत्तिकं समाप्तम् ॥ अथ तृतीयं वन्दनाध्ययनम् साम्प्रतं चतुर्विंशतिस्तत्रानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायोपदेष्णा मतामुत्कीर्तनं कृतम्, इह स्वर्हदुपदिष्टसामायिकगुणवत एवं वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्वा-चतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्- 'भत्तीऍ जिणवराणं खिज्जंत्ती पुत्रसंचिआ कम्म'त्ति, 'वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभकेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च - "विणओवयार माणस भंजणा पूयणा गुरुजणस्स । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ॥ १ ॥" अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनायामैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरूप्यते - 'वदि अभिवादनस्तुत्योः' इत्यस्य' करणाधिकरणयोश्चे (पा०३-३-११७ ) ति ल्युट्, 'युवोरनाकावि' (पा०७-१-१) त्यनादेशः, 'इदितो नुम् धातोरिति ( पा०७-१-५८) नुमागमः, ततश्च वन्द्यते - स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम्, अस्याधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकारः दचिहकिकम्मं पूयाकम्मं च विणयकम्मं च । १ विनयोपचारः मानस्य भञ्जना पूजना गुरुजनस्य । सीर्थकराणां चाज्ञा श्रुतधर्माराधनाऽक्रिया ॥ १ ॥ वन्दनं-निरूपितमेव, 'चिञ् चयने' अस्य 'स्त्रियां क्तिन्' ( पा० ३ - ३ - ९४ ) कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः चीयते असाविति वा चितिः, भावार्थः पूर्ववत्, 'डुकृञ् करणे' अस्यापि क्तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः क्रियतेऽसाविति वा कृतिः - मोक्षायावनामादिचेष्ठैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( पा० १-४-४९ ) ति वचनात् क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' ( तत्त्वा० अ० १० सू० ३ ) इति वचनात्, कचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणेति वचनात् इह क्रियावचनः परिगृह्यते, ततश्च वन्दकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' ( पा०३ - ३- १०३ ) इत्यप्रत्ययान्तस्य पूजनं पूजा - प्रशस्तमनोवाक्काय चेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजा क्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, घशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः ' णीञ् प्रापणे' इत्यस्य एरचि( पा०३-३-५६ ) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते aisargप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह काय करसव के वावि काहे व कइखुत्तो ! ॥ ११०२ ॥ कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं । कहदोस विमुकं किहकम्मं कीस कीरइ वा १ ॥११०३ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy