SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 13 आवश्यकहारिभद्वीया उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छन्ति, किं न प्रयच्छन्ति ?, अत आह-समाधिं च वोधिं चेति गाथार्थः ॥ १०९५ ॥ किं च जं तेहिं दावं तं दिनं जिणवरेहिं सव्वेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ॥ १०९६ ॥ व्याख्या - यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं १ - दर्शनज्ञानचारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एप त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तं मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः ॥ १०९६ ॥ आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यते भक्तीह जिणवराणं विजंती पुत्र्वसंचिआ कम्मा । आयरिअनमुक्कारेण विज्ञा मंता य सिज्झति ॥ १०९७ ॥ व्याख्या—‘भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ?, 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि 'कर्माणि' ज्ञानावरणादीनि इत्थंस्वभावत्वादेव तद्भक्तेरिति, अस्मि - नेवार्थे दृष्टान्तमाह- तथाहि - आचार्यनमस्कारण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्ति मतस्सत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिवन्धककर्मक्षयादिति भावनीयं, गाथार्थः ॥ १०९७ ॥ अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोबोधिलाभादेरपि तन्निर्वर्त्यत्वात् तथा चाऽऽह " * मोक्षमार्गकारणमिति ज्ञानविषयः भत्ती जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पार्वति ॥ १०९८ ॥ व्याख्या - भक्त्या जिनवराणां किंविशिष्टया ? - 'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यवोधिलाभस्य हेतुत्वेन द्रष्टव्यं समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः ॥ १०९८ ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिन मनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाह - द्विल्लिअं च बोहिं अकरितोऽणागयं च पत्थंतो। दच्छिसि जह तं विन्भल ! इमं च अन्नं च चुक्किहिसि ॥ १०९९ ॥ हिलि च बोहिं अकरितोऽणागयं च पत्तो । अन्नंदाई बोहिं लग्भिसि कयरेण मुल्लेण १ ॥ ११०० ॥ व्याख्या—'लद्धेल्लियं चत्ति लब्धां च प्राप्तां च वर्तमानकाले, कां ?, 'बोधिं' जिनधर्मप्राप्तिम्, 'अकुर्वन्' इति कर्मराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन्, किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल ! - प्रकृते ! इमां चान्यां वोधिमधिकृत्य, किं ?, 'चुक्किहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन्, अन्नंदाईति निपातः असूयायाम्, अन्ये तु व्याचक्षते - अन्यामिदानीं बोर्षि लप्स्यसि किं ?, कतरेण मूल्येन ?, इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तप्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, स्यादेतद्, एवं सत्याद्यस्य वोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात् न, अनादिसं सारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदा वेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥ १०९९ - ११००॥ तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किञ्चि चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह— चेहयकुलगणसंघे आयरिआणं च पवयण सुए अ । सव्वैसुवि तेण कयं तवसंजममुजमंतेणं ॥ ११०१ ॥ व्याख्या - चैत्यकुलगणसङ्गेषु तथाssचार्याणां च तथा प्रवचनश्रुतयोश्च किं १, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमालक्षणानि, कुलं - विद्याधरादि, गणः - कुलसमुदायः सङ्घः - समस्त एव साध्यादिसङ्घातः, आचार्याः - प्रतीताः, चशब्दा दुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, एवमन्यत्रापि द्रष्टव्यं प्रवचनं - द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं श्रुतं सूत्रमेव चशब्दः स्वगतानेक भेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमंत्र भावना-अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येsपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ ११०१ ॥ एवं तावद्गतं सूत्रमूल एवं मए अभिधुए' त्यादि गाथाद्वयं, साम्प्रतं चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy