SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 12 आवश्यकहारिभद्रीया तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् ॥ ५॥" एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलपितफलावाप्तिर्भवतीति गाथार्थः ॥ तथाकिनियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । आरुग्गयोहिलाभं ममाहिवरमुत्तमं किंतु ॥६॥ इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यक्रस्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिता:-पुष्पादिभिः पूजिताः, क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्च वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेविति वचनात् , प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्धा' इति सितं मातमेषामिति सिद्धाः-कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ वोधिलाभ:-प्रेत्य जिनधर्मप्राप्तिर्वाधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावकि ?, तत आह-समाधान-समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वर-प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-उत्तम-सर्वोत्कृष्ट ददत-प्रयच्छन्तु, आह-किं तेषां प्रदानसामर्थ्यमस्ति?.न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेति गाथार्थः ॥ ६ ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम्, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनकार्थिकानि प्रतिपादयन्नाहयुइथुणणवंदणनमंसणाणि एगहिआणि एयाणि । कित्तण पसंसणावि अविणयपणामे अ एगहा ॥ १०९२ ॥ व्याख्या-स्तुतिः स्तवनं वन्दनं नमस्करणम् एकाथिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकाथिका नीति गाथार्थः ॥ १०९२ ॥ साम्प्रतं यदुक्तम् 'उत्तमा' इति तद्व्याचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति ॥ १०९३ ॥ ___ व्याख्या-मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं, तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम् ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम् ?, उत्तमा भवन्ति. ऊर्ध्व तमोवृत्तेरिति गाथार्थः॥१०९३॥ साम्प्रतं यदुक्तं 'आरोग्यवोधिलाभ'मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाह आरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअंति?, विभासा इत्थ कायव्या ॥१०९४।। ___ व्याख्या-आरोग्याय वोधिलाभः आरोग्यवोधिलाभस्तं, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम् , अत्र काक्का पृच्छति-'किं नु हु णियाणमेअंति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने, निदानमेतदिति?, यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिपिद्धत्वात्, न चेद् व्यर्थमेवोच्चारणमिति, गुरुराह-'विभासा एत्थ कायब'त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्थः, अत्र कर्तव्या, इयमिह भावना-नेदं निदानं, कर्मवन्धहेतुत्वाभावात् , तथाहि-मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः, न च मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, न च व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति माथार्थः ॥ १०९४ ॥ आह-न नामेदमित्थं निदानं, तथापि तु दुष्टमेव, कथम् ?, इह स्तुत्या आरोग्यादिप्रदातारः स्युर्न वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृपावाददोपप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाहभासा असचमोसा नवरं भत्तीइ भासिआ एसा । न हु खीणपिज्जदोसा दिति समाहिं च बोहिं च ॥१०९५॥ __ व्याख्या-भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, था चोक्तम्-"आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पञ्चक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्गाहेया भासा भासा य अभिगमि वोद्धधा । संसयकरणी भासा वोयड अधोयडा चेव ॥२॥" इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चायां वर्तते, यदुत-'आरुग्गवोहिलाभं समाहिवरमुत्तम दिंतु'त्ति।आह-रागादिरहितत्वादारोग्यादिप्रदानविकलास्ते, ततश्च किमनयेति, आमन्त्रणी भाज्ञापनी याचनी तथा प्रच्छनी च प्रज्ञापनी । प्रत्याख्यानी भाषा भाषेच्छानुलोमा च ॥१॥ भनभिगृहीता भाषा भारा चाभिप्रहे बोम्पा। संशयकरणी भाषा व्याकृताऽव्याकृतव ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy