________________
193 आवश्यकहारिभद्रीया मित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं णिग्घायणठाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्यातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीतिकरोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा ? नेत्याह-'अन्नत्थूससिएणं'ति अन्यत्रोच्लूसितेन, उच्छसितं मुक्ता योऽन्यो व्यापारस्तेन व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोधं प्रवलं वाश्वसितमुच्छ्रसितं तेन,'नीससिएणति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'खासिएणं'ति कासितं प्रतीतं, 'छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि,'जभाइएणं'
तिम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उड्डुएणं ति उद्गारितं प्रतीतं, वायनिसग्गेणं'ति अपानेन पवननिर्गमो वातनिसर्गोभण्यते तेन, भमलीए'त्तिभ्रमल्या,इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्च्छया' पित्तमूर्च्छयाऽपि,पित्तप्राबल्यात् मनाग मूर्छा भवति, 'सुहुमेहिं अंगसंचालेहि सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैात्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहि सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसन्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिठिसंचालेहि सूक्ष्मदृष्टिसञ्चारैः-निमेषादिभिः, 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो' एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभन्नः, भग्नः सर्वथानाशितः,न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-'जाव अरहंताणं भगवंताणं नमोकारेणंन पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां भगः-ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहताणं'इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि'त्ति तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन-ऊर्ध्वस्थानेन तथा मौनेन-वागनिरोधलक्षणेन, तथा ध्यानेन शुभेन, 'अप्पाण'ति प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापक, व्युत्सृजामि-परित्यजामि, इयमत्र भावना कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात् , तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओ निरुद्धवइपसरो। जाणइ सुहमेगमणो मुणि देवसियाइअइयारं॥१॥ (प्र०) परिजाणिऊणय जओ संमं गुरुजणपगासणेणं तु।सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ॥२॥(प्र०) काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्गं ॥ १४९७ ॥
व्याख्या-इह च सम्बद्धगाथाद्वयमन्यकर्तृ तथापि सोपयोगमितिकृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः सन् निरेजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाक्प्रसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, सन् कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः ॥ ततः किमित्याह-यस्मात् कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच-यस्माजिर्भगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥ १-२॥ यतश्चैवमतः 'काउस्सग्गं मुक्खपहदेसिय'ति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात्, तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊणं'ति दिवसायतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं राव्यतिचारज्ञानार्थमपि, 'ठायंति उस्सगं'ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥१४९७॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह
सयणासणण्णपाणे चेइय जइ सेज काय उच्चारे । समितीभावणगुत्ती वितहायरणमि अइयारो ॥१४९८ ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण'त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अण्णपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतिय'त्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org