SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 192 मावश्यकहारिभद्रीया अखइरो वा' यथा खदिरो भवति द्रुम एव, दुमस्तु खदिरः अखदिरो वा-धवादित्ययं गाथार्थः ॥ १४८८ ।। अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत्, कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन 'तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाणं'ति 'अह नेयं झाणमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा "नियमा चित्तं झाणं झाणं चित्तं न याविभइयवं' यतोऽव्यक्तादि-' चित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्व, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदश्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिर्निषण्णकारी वेदितव्यः, वक्ष्यते च-'अतरंतो उ' इत्यादि, अधुना पञ्चमः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम् , अधुना षष्ठः कायोत्सर्गभेदः प्रदीते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदःप्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थःस निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टमः कायोत्सर्गभेदःप्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निप(व)ण्णः,स च धर्मादीनि न ध्यायतीत्यवगन्तव्यम् ,अधुना नवमः कायोत्सर्गभेदःप्रदीते, इह च-'अट्ट रुदं च दुवे' गाहा निगदसिद्धा। 'अतरतो' गाहा निगदसिद्धेव, नवरं 'कारणियसहूवि य निसण्णो'त्तियो हि गुरुवैयावृत्त्यादिना व्यापूतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥१४९५-१४९६॥ इत्थं तावत् कायोत्सर्ग उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सत्र-'करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र_इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्म समणाणं जोगाणं जं खंडिअं जं विराहिअं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् ) अस्य व्याख्या-तल्लक्षणं चेद-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि सेहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया'मित्यस्योतमपुरुषस्यैकवचनान्तस्य 'इपुगमिष्यमा छ' इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थानुमिति भवति, कायोत्सर्ग'मिति 'चिञ् चयने' अस्य घञन्तस्य 'निवाससमिति(चिति)शरीरोपसमाधानेष्वादेश्च क इति (पा० ३-३-४१) चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य पनि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाजि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रं तस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणद्वाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम् ॥ अस्य व्याख्या-'तस्योत्तरीकरणेन"तस्य'ति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्सग्ग'मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तञ्च प्रायश्चित्तद्वारण भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथना विशादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्त्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत् , प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं'विशोधनं विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy