SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 194 आवश्यकहारिभद्रीया वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, जइ'त्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाधकरणमिति, 'सेज'त्ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विपयं वितथाचरणमविधिना प्रमार्जनादौ ख्यादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिक व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे'त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः-पुरीष भण्यते वितथाचरणं चैतविषयं यथा कायिकायां, 'समिति'त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चर्यासमितिप्रमुखाः पश्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासे वने चेत्यादि, 'भावने ति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्-'भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥१॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुलेभत्वं च भावना द्वादश विशुद्धाः॥२॥" अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति'ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिविति गाथार्थः॥१४९८॥इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहगोसमुहणंतगाई आलोए देसिए य अइयारे । सन्चे समाणइत्ता हियए दोसे ठविजाहि ॥१४९९ ॥ कार्ड हिअए दोसे जहकमं जा न ताव पारेह । ताव सुहमाणुपाणू धम्मं सुकं च झाइजा ॥ १५०० ॥ ___गोषः प्रत्यूषो भण्यते, 'मुहणंतर्ग' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोपादारभ्य मुखवनिकादौ विषये आलोए देसिए य अतिचारे'त्ति अवलोकयेत्-निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षिता. दीनिति, ततः 'सबे समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति 'समाणइत्सा' समाप्य बुझ्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' चेतसि दोषान्प्रतिषिद्धकरणादिलक्षणान आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः॥१४९९ ॥ कृत्वा हृदये दोषान यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्व लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति'त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, 'ताव सुहुमाणुपाणु'त्ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छासनिश्वास इत्यर्थः, किं ?-'धम्मं सुकं च झाएजा' धर्मध्यान प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्ल ध्यानं च ध्यायेदिति गाथार्थः॥ १५०० ॥ एवंदेसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इकिक्के तिनि गमा नायव्वा पंचसेएसु ॥ १५०१ ॥ व्याख्या-'देवसिय'त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'राइय'त्ति रात्रिके, 'पक्खिए'त्ति पाक्षिके 'चाउम्मासे'त्ति चातुर्मासिके तथैव 'वरिसि'त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिक-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे देवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः १, सामायिकं कृत्त्वा कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम् , इह च यस्माद् दिवसादि तीर्थ दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ १५०१ ॥ अत्राह चोदकः आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं । तो किं करेह बीयं तइअं च पुणोऽवि उस्सग्गे? ॥ १५०२॥ समभावंमि ठियप्पा उस्सग्गं करिय तो पडिक्कमइ । एमेव य समभावे ठियस्स तइयं तु उस्सग्गे ॥ १५०३ ॥ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥ १५०४ ॥ व्याख्या-'आदिमकायोत्सर्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कमणे ताव बितियं काउं सामाइयंति योगः, ता किं करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थः॥ १५०२॥ चालना चेयम्, अत्रोच्यते-समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिक्रामति, 'एमेव य समभावे ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ॥ १५०३ ॥ प्रत्यवस्थानमिदम्-'सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ अइयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य 'तस्स मिच्छामि दुक्कड'ति सूत्रावयवं व्याचिख्यासुराहमित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ।मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ १५०५॥ कसि कहुं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छाउकडपयक्खरत्थो समासेणं ॥१५०६॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy