________________
आवश्यकहारिभद्रीया
190
तीर्थंकरा गणधराश्च वक्ष्यते च - 'भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणंमि त्ति गाथार्थः ॥ १४७० ॥ पराभ्युपगतध्यानसाम्य प्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह - 'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह - ध्यानं भषति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव - एकाग्रधारणादिनैव प्रकारेण तलक्षणयोगाद् ध्यानं भवतीति गाथार्थः ॥ १४७१ ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतर सद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह - 'देसिया' गाहा, देशयतीति देशिक:- अग्रयायी देशिकेन दर्शितो मार्ग:-पन्था यस्य स तथोच्यते व्रजन् - गच्छन् नरपती - राजा लभते शब्द - प्रामोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वञ्च्चति' राजा एष व्रजतीति, न चासौ केवलः प्रभूतलोकानुगतस्वात् न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अणुगामिणो तस्स' त्ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य - राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाधार्थः ॥ १४०२ ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः - 'पढमिलु' प्रथम एव प्रथमिलुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिकस्य उदये, कस्य, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थस्थि' शेषा अपि त्रयः - अप्रत्याख्यानप्रत्याख्यानावरणसचलनादयस्तत्र - जीवद्रव्ये सन्ति न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-' न य तेण संति तहियं न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः,'तप' तथा एतदपि अधिकृतं वेदितव्यमिति गाधार्थः || १४७३ ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयनाह - 'मा मे एज काउ'त्ति एजतु-कम्पतां 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ॥ १४७४ ॥ इत्थं प्रतिपादिते सत्याह चोदकः - 'जह कायमणनिरोहे' ननु यथा कायमन सोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुजइन एवं' ति वाचि युज्यते नैवेति कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उझाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोत्थ'ति star विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ॥ १४७५ ॥ इत्थं चोदकेनोक्ते सत्याह गुरुः'माल'त्तिमा मे चलतु- कम्पनामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः- शरीरमिति - एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनो - निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो- दुष्टवाक्परिहर्त्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः ॥ १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह - ' एवंविहा गिरा' एवंविधेति निरवद्या गीः- वागुच्यते ''ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ॥ १४७७ ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि - धमपि दर्श्यते - 'मणसा वावारंतो' मनसा - अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य- देहं घाचं - भारतीं च 'तप्परीणामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो - योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणतो 'ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ १४७८ ॥ अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्र
।
१४७९ ॥
१४८० ॥
१४८१ ॥
॥
॥
धम्मं सुकं च दुवे शायद झाणाइँ जो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायव्वो धम्मं सुकं च दुवे नवि झायइ नवि य अवरुद्दाई । एसो काउस्सग्गो दव्वसिओ होइ नायवो पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ अचिरोववनगाणं मुच्छय अन्वत्तमत्तमुत्ताणं । ओहाडियमव्वत्तं च होह पाएण चित्तंति गाढा लग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमतं वा ॥ उम्हासेसोवि सिही होउ लद्धिंघणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ पुवं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ आ० मणसहिएण उ काएण कुणइ वायाइ भासई जं च । एयं च भावकरणं मणरहियं दव्वकरणं च चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥ ० नियमा चित्तं झाणंझाणं चित्तं न यावि भइयव्वं । जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ॥१४८८ ॥
॥
॥
Jain Education International
For Private & Personal Use Only
१४८२ ॥
१४८३ ॥
१४८४ ॥
१४८५ ॥
१४८३ ॥ १४८७ ॥
www.jainelibrary.org