SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 139भावश्यकहारिभद्रीया वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ॥ १४६८ ॥ एमेव य जोगाणं तिण्हवि जो जाहि उकडो जोगो । तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ॥१४६९ ॥ काएविय अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंमु ॥ १४७० ॥ जइ एगग्गं चित्तं धारयओ वा निरुभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥ १४७१ ॥ देसियदंसियमग्गो वचंतो नरवई लहइ सदं । रायत्ति एस वच्चइ सेसा अणुगामिणो तस्स ।। १४७२ ॥ पढमिलुअस्स उदए कोहस्सिअरे वि तिनि तत्थथि । नय ते ण संति तहियं न य पाहन्नं तहेयंमि ॥ १४७३ ।। मा मे एजउ काउत्ति अचलओ काइअं हवह झाणं । एमेव य माणसियं निरुद्धमणसो हवा झाणं ॥१४७४ ॥ जह कायमणनिरोहे झाणं वायाइ जुजइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुस्थ ॥ १४७५ ।। मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासचिवजस्स वाह झाणमेवं तु ॥ १४७६ ।। एवं विहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं ॥ १४७७॥ मणसा वावारंतो कायं वायं च तप्परीणामो। भंगिअसुझं गुणतो वह तिविहेवि झाणंमि ॥ १४७८ ॥ _ 'देहमतिजड्डुसुद्धी'ति देह जाड्यशुद्धिः श्लेष्मादिप्रहाणतः मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, सुहदुक्खतितिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यान धर्मशुक्ललक्षणं, एकाग्र:-एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति. इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ १४६२ ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आह-'अंतोमुहुत्तकालं' द्विघटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्सकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान'(तत्त्वार्थे अ० सूत्र ९२७) मितिकृत्वा, तत् पुनरात रौद्र धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥१४६२-१४६३॥ 'तत्थ उ दो आइल्ला', गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति तदेतदभिधित्सुराह'संवरियासवदार'त्ति संवृतानि स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, व ध्यायति ?'अव्याबाधे अकंटए देसेत्ति' अव्यावाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्प [अवस्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थ, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्त्वा(त्य) धनं-दृढं मनसा-अन्तःकरणेन यत् ध्यायति, किं तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं-गणधरादिभिर्वद्धं अर्थ वा-तद्गोचरं, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थ, यदा त्वर्थ न तदा सूत्रमिति गाथार्थः ।। १४६४-१४६६ ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झार्ण जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया'मित्यस्य चिन्तार्थत्वात् , इत्थमाशङ्कयोत्तरमाह-तं न भवति जिणदिढ झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ?, यस्माजिनैदृष्टं ध्यान त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ १४६७ ॥ किं तु ?, कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह–'वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात् , 'न य इतरे तत्थ दो नस्थिति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ॥ १४६८ ।। 'एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो वणवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः यां कायोऽप्यस्ति अस्मंदादीनां त मनः कायो न वेति. केवलिनःशैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदित न्य]मिति गाथार्थः॥१४६९॥इत्यं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यान[त्वमभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाह'काएवि य' कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए'त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात , मणस्स चेव जह होइ'त्तिमनमश्चैव यथा भवत्यध्यात्म एवं कायेऽपि वाचि चेत्यर्थः. एवं भेदनाभिधायाधुनकादावपि दर्शयन्नाह-कायवाङ्मनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy