________________
136
आवश्यक हारिभद्रीया
काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः ॥ १४३६ ॥ आह- किमिति तुशब्द विशेषणाज्जीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति १, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षणभावोपेतत्वाद्, आह व भाष्यकारः - 'जइ अस्थिकायभावो' यद्यस्तिकाय भाषः अस्तिकायत्वलक्षणः, 'इय एसो होज्ज अस्थिकायाणं' 'इय' एवं यथा जीवपुद् गलद्रव्ये विशिष्टपर्याय इति एष्यन् - आगामी भवेत्, केषाम् १ - अस्तिकायानां धर्मास्तिकायादीनामिति, व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज्ज दत्थिकाय'ति ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाधार्थः यतश्च'तीयमणागय' अतीतम् - अतिक्रान्तमनागतं भावं यद्यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां नास्ति न विद्यते अस्तित्वं विद्यमानत्वं, कायस्वापेक्षया सदैव योगादिति हृदयं, 'तेण र'ति तेन किल केवलं शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति न विद्यते, किं १ - 'दबस्थि कायन्ति द्रव्यास्तिकायस्त्र, सदैव तद्भावयोगादिति गाथार्थः ॥ १४३७ ॥ आह- यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह - 'कामं भवियसुरादि' काममित्यनुमतं यथा 'भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रह: आदिशब्दात् द्रव्यनाकादिग्रहः तेषु -तविषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावज्जायते तदा, 'तेण र ते दवदेव'ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैतद् धर्मास्तिकायादीनास्ति, पुण्यकालेsपि सद्भावयुक्तत्वादेवेति गाथार्थः॥ १४३८ ॥ यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधाथाह चोदकः - 'दुहओऽणंतररहिया'दुहउ' ति वर्त्तमानभावस्थितस्य उभयत पष्यकालेऽती तकाले व 'अ ंतररहिय'ति अनतरी एण्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभष भावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जद्द'ति यदि तस्योer 'ए तो भवा अनंतगुण' ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युपयेरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अयोध्येत - भवत्वेवमेष का नो हानिरिति १, उच्यते, एकस्य - पुरुषादेरेककाले - पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके-बहव इति गाथार्थः ॥ १४३९|| इत्थं चोदकेनो के गुरुराह - 'दुहओडणंतरभवियं' दुहउ'ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकं, पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् वज्रमयं गाथार्थः ॥ १४४० ॥ पुरस्कृत भवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्त्तमानो बध्नाति पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्यर्थमाह-'होजियरेसुवि जड़ तं दबभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्यतीतेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्ककर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसवोदकवचनमिति गाथार्थः ॥१४४१॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संज्ञासु दोसु सूरो' सन्ध्या च सन्ध्या व सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिवद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव-यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं-विज्ञेयमिति, एतदुक्तं भवति - वर्त्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः ॥ १४४२ ॥ अधुना मातृकाकायः प्रतिपाद्यते, [ मातृकेऽपि ] मातृकापदानि 'उप्पण्णेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथाचाह भाष्यकारः - 'माउ - पर्यंत मातृकापदमिति 'णेमं' 'णेमं'ति चिह्न, नवरमन्योऽपि यः पदसमूहः- पदसङ्घातः स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं० ? - 'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति पाठान्तरं वा 'जस्सेकपदे बहू अत्थ'त्ति गाथार्थः || १४४३ ॥ संग्रहकायप्रतिपादनायाह'संगहकाओ णेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट १ इत्याह- 'णेगाव जत्थ एगवयणेण घेप्पंति'त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रमः सेना जातो वसति निविडत्ति, यथासङ्ख्यं, प्रभूतेष्वपि स्तम्बेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ॥ १४४४ ॥ साम्प्रतं पर्यायकार्यं दर्शयति
'पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र - परमाण्वादौ पिण्डिता बहवः तथा च परमाणावपि कस्मिंश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्- "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥" स चैकस्तिकादिरसस्तदन्यापेक्षया तिक्ततरतिततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः ॥ अधुना भारकायस्तत्र गाथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org