SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 135 आवश्यकहारिभद्रीया कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्थ तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह'काओ कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि-शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिल्लेखादि 'निकायमाहंसु'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारं व्याख्यायते-'अक्खे वराडए' अक्षे-चन्दनके वराटके वा-कपईके वा काष्ठे-कुट्टिमे पुस्ते वाघस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतोभावःसद्भावः तथ्य इत्यर्थः तमाश्रित्य,तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चानित्य, किं ?-स्थापनाकायं विजानाहीति -गाथार्थ ॥ १४३१ ॥ सामान्येन सदभावासद्भावस्थापनोदाहरणमाह-लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते 'एस सब्भाविया भवे ठवण'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः-हस्त्याकृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ॥ १४३२ ॥ शरीरकायप्रतिपादनायाह-ओरालियवेउविय' उदारैः पुद्गलैनिवृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आहियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्मणं, औदारिकं वैक्रिय आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनायाह'घउसुवि गई' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपि गतिपु-नारकतिर्यग्नरामरलक्षणासु 'देहो'त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:-'एसो सरीरकाउ'त्ति नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-'विसेसणा होति गतिकाओ'विशेषणाद-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः॥ अथवा सर्वसत्त्वानामपान्तरालगतौ यःकायःस गतिकायोभण्यते, तथा चाह-'जेणुवगहिओ' येनोपगृहीत-उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत् , एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा(श्रितोऽ)पान्तराले देवादिभवं गच्छति स गतिकायोभण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणीति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायोभण्यते एप खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयगंकम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत जसं कामेणशरीरं गतिकायस्तदाश्रयेणापान्तरालगती जीवगतेरिति भावनी(यम)यं गाथाथेः॥निकायकायः प्रतिपाघते तत्र-'नियय'त्ति गाथार्द्ध व्याख्यायते 'निययमहिओ व काओ जीवनिकायत्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपिकालेषुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा,तथाहि-एकादयो यावदसङ्ख्येयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति,एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते,अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः . षविधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं। अधुनाऽस्तिकायःप्रतिपाद्यते, तत्रेदं गाथाशकलं 'अस्थित्तिबहुपदसा तेणं पंचत्थिकाया उ' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति 'चेति भावना; बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूनी नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए (अने)कत्वादस्तिकायत्वांपत्तिरित्येतत् परिहृतमवग-, न्तव्यं, ते चामी पञ्च, तद्यथा-धर्मास्तिकायोऽधोस्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः ॥ साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाह___ 'जं तुपुरक्खड'त्ति यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि -जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमिति-पुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः। 'पच्छाकडं व भावाओ'त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दबदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'द, ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दवदेवादि' यथेत्युदाहरणोपन्यासार्थः भन्यो-योग्यः द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरूषादिर्मृत्वा देवत्वं प्राप्स्यति वद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्य. देवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यलारकादिग्रहः परमाणुग्रहश्च, तथाहि-असावपि व्यणुकादिJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy