SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया 187 एको काओ दहा जाओ' एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये'न्यासात, तत्र एकस्तिष्ठति. एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति-ब्रूहि हे मानव ! केन कारणेन ?, कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणतिभारकायः कापोत्येवोच्यते इति ॥ १४४५ ॥ भावकायप्रतिपादनायाह 'दुगतिगचउरो' द्वौ त्रयश्चत्वारः पञ्च वा भावा-औदयिकादयः प्रभूता वाऽन्येऽपि 'यत्र सचेतनाचेतने वस्तुनि विद्यन्ते म भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा उ'जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः ॥ १४४६ ॥ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम् , अधुनैकार्थिकान्युच्यन्ते, तत्र गाथाकायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्रयश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ॥ २३१ ॥ मुलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकाथिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छविहो होइ ॥१४४७॥ दव्वुज्झणा उ जंजण जत्थ अवकिरइ दवभूओ वा। जत्थ वावि खित्ते जंजचिर जंमि वा काले ॥१४४८॥ भावे पसत्यमियरं जेण व भावेण अवकिरइ जं तु । अस्संजमं पसत्थे अपसत्थे संजमं चयइ ॥ १४४९ ॥ खरफरसाइसचेयणमचेयणं दुरभिगंधविरसाई । द्वियमवि चयइ दोसेण जेण भावुज्झणा सा उ॥१४५०॥ उस्सग्ग विउस्सरणुज्झणा यअवगिरण छडण विवेगो। वजण चयणुम्मुअणा परिसाडण साडणाचेव ॥१४५१॥ उस्सगे निक्वेवो चउकओ छक्कओ अ काययो । निक्खेवं काऊणं परूवणा तस्स कायवा ॥१॥ सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य नायव्यो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ ॥ १४५२॥ 'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराह--'दबुज्झणा उ जं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'ज'न्ति यद् द्रव्यमनेषणीयं 'अवकिरति'त्ति योगः अवकिरति-उत्सृजति 'जेणे'ति येन करणभूतेन पात्रादिनोत्सृजति, जत्थ'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो घा-अनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्थ वावि खेत्ते'त्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावर्ण्यते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जे जधिर जम्मि वा काले'त्ति यत्कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः 'जच्चिर'ति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गों व्यावय॑ते एष कालोत्सर्ग इति गाथार्थः ॥ १४४८ ॥ भावोत्सर्गप्रतिपादनायाह___ 'भावे पसत्थमियरं' 'भावे'त्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्त-शोभनं वस्त्वधिकृत्य 'इतरं ति अप्रशस्तमशोभनं च, तथा येन भावनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गाथार्थः ॥ १४४९ ॥ यदुक्तं येन वा भावेनोत्सृजति तत्प्रकटयन्नाह–'खरफरसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुष-दुभाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुज्झणा सा उ' भावेनोत्सर्ग इति गाथार्थः ॥ १४५० ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा'उस्सग्ग विउस्सरणु' उत्सर्गः .व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थः॥ १४५१ ॥ मूलद्वारगाथायामक्तान्यत्सर्गकार्थिकानि, ततश्च कायोत्सर्ग इति कायोत्सर्गः । इदानीं । मूलद्वारगाथागतविधानमार्गणादारावयवार्थव्याचिख्यासयाऽऽह-'सो उस्सग्गो दुविहो' स कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायवो चेष्टायामभिभवेच ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, 'उवसग्गऽभिउंजणे बिइओ'त्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसगोभियोजनं तस्मिन्नपसर्गाभियोजने द्वितीया-अभिभवकायोत्सगे इत्यथे। महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजन कार्यइयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे? नणुगवेण परपुरं अभिरुज्झइ एवमेयंति(पि)॥१४५३।। मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गंतु।भयकारणे य तिविहे णाभिभवो नेव पडिसेहो ॥१४५४॥ आगारेऊण परं रणिव जह सो करिब उस्सरगंजजिज अभिभवो तो तदभावे अभिभवो कस्स?॥१४५५॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy