________________
133 आवश्यकहारिभद्रीया प्रतिक्रमणं, सहसाऽसमितादौ मिध्यादुष्कृतकरणमित्यर्थः, 'मीम'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृत चेत्यर्थः, 'विवेगेत्ति विवेकः अनेषणीयस्य भक्कादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गे'त्ति तथा व्युत्सर्गः कुस्वप्नादौ कायोत्सर्ग इति भावना, 'तवे'त्ति कर्म तापयतीति तपः-पृथिव्यादिसंघटनादी निर्विग(कृ)तिकादि, 'छेदेत्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपानादौ पुनर्वतारोपणमित्यर्थः, 'अणवठ्या यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् यतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंथिए चेव'त्ति पुरुषविशेषस्य स्वलिडराजपत्याद्यासेवनायां पारञ्चिकं भवति, पारं-प्रायश्चित्तान्तमश्चति-गच्छतीति पारश्चिक, न तत ऊर्द्ध प्रायश्चित्तमस्तीति गाथार्थः ॥ १४१८ ॥ एवं प्रायश्चित्तभैषजमुनं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाहदुविहो कायंमि घणो तदुभवागंतुओ अ णाययो । आगंतुयस्स कारइ सद्धरणं न इयरस्स ॥ १४१९ ॥
। असोणिओ केवलं तर लग्गो। अवउज्झत्ति मल्लो सल्लोन मलिज्जइ वणो उ॥१४२०॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥१४२१॥ मा वेअणा उ तो उद्धरितु गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिहा वारिजइ पंचमे वणिणो ॥१४२२ ॥ रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा । तित्तिमित्तं छिजइ सत्तमए पूइमंसाई ॥१४२३ ।। तहविय अठायमाणो गोणसखइयाइ रुप्फए वावि । कीरह तयंगळेओ सअहिओ सेसरक्खहा ॥ १४२४ ॥ मूलुत्तरगुणरुवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥१॥ (प्र०)॥ भिक्खायरियाइ सुज्झइ अइआरो कोइ वियडणाए उ। बीओ असमिओमित्ति कीस सहसा अगुत्तो वा ?॥१४२५ सहाइएसु रागं दोसं च मणा गओ तइयगंमि । नाउं अणेसणिजं भत्ताइविगिंचण चउत्थे ॥ १४२६ ॥ उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ १४२७॥
द्विविधो-द्विप्रकारः 'कायंमि वणो'त्ति चीयत इति कायः-शरीरमित्यर्थः तस्मिन् व्रणः-क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्भवो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्यो
द्यस्य यथायित-उत्तरपरिकमें क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराह-तणओ अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं स्वग्लग्नं, उद्धृत्य 'अव उज्झत्ति सल्लो'त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुलिङ्गानिर्देश:, 'सल्लो न मलिज्जइ वणो य' न च मृद्यते व्रणा, अल्पत्वात् शल्यस्येति गाथार्थः॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गुद्धियंमि' लग्नमुदृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ?-अदूरगते शल्य इति योगः; मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ परं'ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मईनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥ 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहुति चिट्ठा वारिजई' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघमिति चेष्टा-परिस्पन्दनाादलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धते व्रणोऽस्यास्तीति व्रणी तस्य प्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः॥
'रोहेइ वणं छट्टे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्र्य मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं 'तत्तियमित्तंति तावन्मात्रं छिद्यते, सप्तमे शल्य उद्धृते किं १-पूतिमांसादीति गाथार्थः । 'तहविय अठायेति तथापि च 'अट्ठायमाणे'त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रष्क(रुम्फ)कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तञ्चिकित्सा च प्रतिपादिता, अधुना भावत्रणः प्रतिपाद्यते
'मुलूत्तरगुणरूवस्स' गाहा,इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणा:-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा:-गोचरादिगोचराःत एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥ साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र_ 'भिक्खायरियाई' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं, 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः॥'शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा(मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्या, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्कादि विगिश्चना चतुर्थ इति गाथार्थः ।। 'उस्सग्गेणवि सुज्झई' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित्, कश्चित्
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org