SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ |मै० 182 भावश्यकहारिनद्रीया अट्ठाइज्बेसु दीवसमुद्देसु मनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहव्ययधारा । अड्डारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि । (मूत्रं) अद्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपञ्चरावतपश्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निहवादिव्यवच्छदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि-केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दयन्ते, तत्रेयं करणगाथा-सोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अवारसगस्स निप्फत्ती ॥१॥ स्थापना त्वियं इयं भावना-मणेण ण करेइ आहार म. व. का. सण्णाविप्पजढो सोतिंदियसंवुडो खंतिसंपन्नो णक०णकाण अ० आ. पुढवीकायसंरक्खओ १, मणेण ण करेइ आ सो० च० घा० र० फा हारसण्णाविष्पजढो सोतिदियसंवुडो खंति पु० . आ. वा०व०० तेच पं० । अ० । संपन्नो आउक्कायसंरक्खओ २ एवं तेउ ३ वार ख०मा० आ० ।मु० त० सं० स० सो० आ० बं० ४ वणस्सति ५ बि०६ ति०७ प० ८५०० जे नो करिति मणसा निजियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुणि वन्दे ॥१॥ अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेण लद्धा । एवं मद्दवादिसु एक्के के दस २ लब्भति, एवं सतं, एते सोतिंदियममुर्य तेण लद्धा, एवं चक्खिदियादियेसुवि एक्केके सय २ जाता सता ५००, एतेवि आहारसण्णाऽपरिच्चायगेण लद्धा, भयादि. सण्णादिसुवि पत्तेयं २ पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेण लद्धा न कारवेदिएतेणवि दो करते णाणुजाणति एतेणवि दो सहस्सा २०००,जाता ६ सहस्सा, एते मणेण लद्धा ६०००,वायाएवि ६०००,काएणवि छत्ति ६०००, जाता अट्ठारसत्ति १८००० । 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, तान् 'सर्वान्' गच्छगतनिर्गतभेदान 'शिरसा' उत्तमाङ्गेन मनसा-अन्तःकरणेन मस्तकेन वन्दत(वन्दे) इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाह खामेमि सव्व जीवे, सब्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेरं मझं न केणइ ॥१॥ एवमहं आलोइय निन्दिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिकंतो वंदामि जिणे चउवीसं ॥२॥ (सूत्रं) निगदसिद्धा एवेयं, सबे जीवा खमंतु मेत्ति, मा तेषामप्यक्षान्तिप्रत्ययः कर्मवन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरूपप्रदर्शनपुरःसरं मङ्गलगाहा-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्त, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव देवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः। आह-यद्येवं 'इच्छामि पडिक्कमिड गोयरचरियाए' इत्यादि सूत्रमनर्थकं, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोपः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् ।। इत्याचार्यश्रीमद्धरिभद्रसूरिशकविहितायां आवश्यकवृत्तौ शिष्यहितायां प्रतिक्रमणाध्ययनं समाप्तं ॥ अथ कायोत्सर्गाध्ययन व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सगोध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधवणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेपजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदानप्रतिषेधा प्रतिपादितः, यथोक्तं-'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-"जह करगओ निकतइ दारूं जंतो पुणोऽवि वच्चंतो। इय किंतंति सुविहिया काउस्सग्गेण कम्माई ॥१॥ काउस्सग्गे जह सट्टियस्स भजति अंगमंगाई। इय भिंदंति सुविहिया अविहं कम्मसंघायं ॥२॥” इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य न वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वकमित्यतरतन्निरूपितं, निवेद्य च भूयः शुभेवेव स्थानेषु प्रतीपं कमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेपजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैपजमेव तावद्विचित्रं प्रतिपादयन्नाह| आलोयण पडिकमणे मीस विवेगे तहा विउस्सग्गे। तव छेय मूल अणवट्टया य पारंचिए चेव ।। १४१८॥॥ ' 'आलोयणं'ति आलोचना प्रयोजनतो हस्तशता वहिर्गमनागमनादौ गुरोविकटना, 'पडिकमणेति प्रतीपं क्रमणं > १ यथा ऋकचो निकृन्तति दारु यान पुनरपि वजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥१॥ कायोत्सर्गे यथा मुरिषतस्य भध्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy