________________
181 आवश्यकहारिभद्रीया सार्थमाह-निजाणमग्गं निवाणमग्गं गान्ति तदिति यानं 'कृत्यल्युटो बहुलं' (पा०३-३-११३ ) इति वचनात् कर्मणि ल्युट, निरुपम यानं निर्यानं, ईषत्प्रारभाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्गः-विशिष्टनिवणिप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्नयनिरासमाह, नितिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गों निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयं, अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्नयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधिं सबदुक्खप्पहीणमग्गं" अवितर्थ-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखमहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-"एत्थठि (इत्थंहि) या जीवा 'सिमंति'त्ति 'अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्रामुवन्ति बुझंतीति बुध्यन्ते केवलिनो भवन्ति 'मुचंति'त्ति मुच्यन्ते भवोपग्राहिकर्मणा 'परिनिव्वायंति'त्ति परि-समन्तात् निर्वान्ति, किमुक्तं भवति ?-'सबदुक्खाणमंतं करितित्ति सर्वदुःखानां शारीरमानसभेदानां अन्त-विनाशं कुर्वन्ति-निवर्तयन्ति । इत्थमभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्नाह
तं धम्म सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्म सद्दहतो पत्तिअंतो रोयंतो फासंतो अणुपालतो तस्स धम्मस्स अन्भुढिओमि आराहणाए विरओमि विराहणाए असंजमं परिआणामि संजमं उवसंपज्जामि अबंभं परिआणामि बंभं उवसंपन्जामि अकप्पं परियाणामि कप्पं उपजामि अण्णाणं परिआणामि नाणं उपसंपजामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तं परियाणाभि सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपन्जामि (सूत्र) __ य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामित्ति प्रतिपधामहे (ये) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसमावेऽपि न सर्वदा रुचिः, 'फासेमि'त्ति स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्म सहहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन स्पृशन् अनुपालयन् 'तस्स धम्मस्स अन्भुडिओमि आराधनाए'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधना. याम्-आराधनविषये 'विरतोमि विराधनाएं'त्ति विरतोऽस्मि-निवृत्तोऽस्मि विराधनायां-विराधनाविषये, एतदेव भेदेनाह-'असंजमं परियाणामि, संजम उवसंपज्जामि' असंयम-प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूपं उपसंपद्यामहे(ये),प्रतिपद्याम(हे)इत्यर्थः, तथा 'अबभं परिया णामि बंभं उपसंपजामि' अब्रह्म-बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत् , प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो निदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-'अकप्पं परियाणामि कप्पं उवसंपजामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानी द्वितीयं बन्धकारणमानित्याह, यत उक्तं [च-"अस्संजमो य एको अण्णाणं अविरई य दुविह" इत्यादि । 'अण्णाण परियाणामि नाणं उवसंपज्जामि' अज्ञानं सम्यग्रज्ञानादन्यत् ज्ञान अज्ञानभेदपरिहरणार्यवाह-'अकिरियं परियाणामि किरियं उवसंपजामि' अक्रिया-नास्तिवादः क्रिया-सम्यग्वादः। तृतीयं बन्धकारणमाश्रित्याह-'मिच्छत्तं परियाणामिसम्मत्तं उवसंपज्जामि' मिथ्यात्वं-पूर्वोक्तं सम्यक्त्वमपि,एतदङ्गत्वादेवाह'अबोहि परियाणामि बोहिं उवसंपज्जामि' अबोधिः-मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह-'अमग्गं परियाणामि मग्गं उवसंपजामि' अमार्गो-मिथ्यात्वादिःमार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह
जंसंभरामिजंचन संभरामिजं पडिकमामिजं च न पडिकमामितस्स सव्वस्स देवसियस्स अइयारस्स पडिकमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मोअनियाणो दिद्विसंपण्णो मायामोसविवजिओ (सूत्र)
यत् किश्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिकमामि जं च न पडिकमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सबस्स देवसि. यस्स अतियारस्स पडिकमापित्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मो अणियाणो दिठिसंपन्नो मायामोसविवजिओ'त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि !, संयतः सामस्त्येन यतः इदानी, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेणभत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम्-इदानीमकरणसया प्रत्याख्यासमतीतं निन्दवा एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्या ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयमाह-'दृष्टिसंपन्नः सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)मायागभो वादपरिहारीत्युक्तं भवति । एषभूतः सन् किं
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org