SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 8 आवश्यक हारिभद्रीया व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादि (वत्) ऋते प्रयासात् कमर्थं पुष्णातीति ?, तस्मात्केवलिन इत्यतिरिच्यते, न अभिप्रायापरिज्ञानाद्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह- यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केलिनः तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं द्व्यादिसंयोगापेक्षयाsपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं 'कीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाह - उसभमजिअं च वंदे संभवमभिणंदणं च सुमहं च । पउमप्पहं सुपासं जिणं च चंदष्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥ ४ ॥ ( सूत्राणि ) तास्त्रिस्रोsपि सूत्रगाथा इति, आसां व्याख्या - इहार्हतां नामानि अन्वर्धमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदं - ' वृष उद्वहने' समग्र संयम भारोद्वहनादू वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेष हेतुप्रतिपादनायाऽऽह ऊरूसु उसभलंछण उसभं सुमिणंमि तेण उसभजिणो । बद्धं । जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोदसण्हं महासुमिणाणं पढमो उसभी सुमिणे दिट्ठोत्ति, तेण तस्स उसभोत्ति णामं कथं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोदस, उसभोत्ति वा वसोत्ति वा एगद्वं । इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेष निबन्धनाभिधित्सयाऽऽह अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा || १०८० ॥ व्याख्या - पेच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिण, तत्तो अक्खेसु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयंति गाथार्थः ॥ १०८० ॥ १ पूर्वार्धं । येन भगवतो द्वयोरप्यूरुणोर्वृपभावुपरीभूतौ येन च मरुदेवया भगवत्या चतुर्दशानां महास्वप्नानां प्रथमं वृषभो दृष्टः स्वप्न इति, तेन तस्य वृषभ इति नाम कृतं, शेपतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, ऋषभ इति वा वृषभ इति वैकार्थो । इदानीमजितः - १ पश्चार्ध | भगवतो मातापितरौ द्यूतं रमेते, प्रथमं राजा जितवान्, यदा भगवन्त आयातास्तदा न राजा, देवी जयति, ततोऽक्षेषु कुमारप्राधान्यात् देवी अजितेति अजितस्वस्य नाम कृतमिति । इदानीं सम्भवो - तस्यैौघतोऽभिधाननिबन्धनं-संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषवीजाभिधित्सयाऽऽह— अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं । गभगए जेण अमहिया सस्सणिष्फत्ती जाया तेण संभवो ॥ इयाणिं अभिनंदणो, तस्य सामान्येनाभिधानान्वर्थःअभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह अभिदई अभिक्खं सक्को अभिनंदणो तेण ॥। १०८१ ॥ व्याख्या—पेच्छद्धं ॥ गम्भप्पभिइ अभिक्खणं सक्को अभिनंदियाइओत्ति, तेण से अभिणंदणोत्ति णामं कथं, गाथार्थः ॥ १०८१ ॥ इदानीं सुमतिः, तस्य सामान्येनाभिधाननिवन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेषनिबन्धनाभिधानायाह जणणी सव्वत्थ विणिच्छएस सुमइत्ति तेण सुमइजिणो । गाहद्धं । जणणी गव्भगए सवत्थ विणिच्छएसु अईव मइसंपण्णा जाया, दोण्हं सवन्तीणं मयपइयाणं ववहारो छिन्नो, १ गर्भगते येनाभ्यधिका शस्य निष्पत्तिर्जाता तेन संभवः । इदानीमभिनन्दनः २ पश्चार्धं ॥ गर्भात्प्रभृतिरभीक्ष्णं शक्रोऽभिनन्दितवानिति, तेन तस्य अभिनन्दन इति नाम कृतं । ३ गाथार्धं । जननी गर्भगते सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाता, द्वयोरपि मृतपत्योः सपत्रयोर्व्यवहारश्छिन्नः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy