SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया जियकोहमाणमाया जियलाहा तेण ते जिणा हुंति । अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥ १०७६ ॥ ___ व्याख्या-जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं ?-जिना भवन्ति, 'अरिणो हता रयं हते'त्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ १०७६ ॥ कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥१०७७॥ __ व्याख्या-कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान् , स्तवार्दानित्यर्थः, कस्येत्यत्राह-सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथा'तपोविनयः' दर्शितो यैः, तत्र तप एव कमेविनयाद् विनयः, इति गाथाथैः॥ १०७७॥ चउचीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाधिदेहेसुं ॥ १०७८ ॥ ___ व्याख्या-चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तनहोऽपि वेदितव्य इति गाथार्थः ॥ १०७८ ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति ॥ १०७९॥ व्याख्या-'कृत्स्नं' सम्पूर्ण 'केवलकल्पं' केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-“सामर्थ्य वर्णनायां औपम्ये चाधिवासेच, कल्पशब्दं विदुर्बुधाः॥१॥" 'लोक' पञ्चास्तिकायात्मकं जानन्ति विशेपरूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविपयत्वे च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, नवरं-"निर्विशेपं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् ॥ १॥” इत्यनया दिशा स्वयमेवाभ्यूह्यमिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इतिकृत्वा । आह-इहाकाण्ड एव केवलचारित्रिण इति किमर्थम् ?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ॥ १०७९ ॥ व्याख्याता तावल्लोकस्येत्यादिरूपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यावस्थाने विशेषतो निर्दिश्य(श्ये)ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम् , अनाऽऽह-अशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्वात्मकत्वेन परिमितत्वात् , केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वादू, वक्ष्यति च-'केवलियणाणलंभो लोगालोगं पगासेइत्ति, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात् , इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एघालोक इति न पृथगुक्तः, न चैतदनाप, यत उक्तम्-'पंचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तद्योतकरेष्ववधिविभङ्गज्ञानिप्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तध्यवच्छेदार्थ धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानित्येतावदे कैवल्य ज्ञानलाभो लोकालोकं प्रकाशयति २ पञ्चास्तिकायमयो लोकः वास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोके येऽपिनद्यादिविषमस्थानेषु मुधिकया धर्मार्थमवतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः, तदपनोदाय लोकस्योद्योतकरानप्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शने'ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥' इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्गुरप्रभवो १, बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञानपांसुपिहितं पुरातनं कर्मचीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माखरं जन्तोः ॥१॥" तथा-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति लाहुरः । कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥” इति । आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थ लोकस्योद्योतकरानित्याद्यप्यदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अहव्यतिरेकेणापरे भवन्तीति, अनोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त ! ताहत एवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थक, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात् । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामहतो केवलित्याव्यभिचारात्, सति च व्यभिचारसम्भवे विशेपणोपादानसाफल्यात् , तथा च-सम्भवे Aविशेषणत्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy