________________
मावश्यकहारिभद्रीया द्वितीये तु नियोजितं, यस्मादेवं वाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थ, मोक्षारदाधकत्वादिति गाथार्थः ॥ १०६६ ॥ भावतीर्थमधिकृत्याहकोहं मि उ निग्गहिए दाहस्स पसमणं हवइ तत्थं । लोहंमि उ निग्गहिए ताहाए छेअणं होह ॥१०६७ ॥
व्याख्या-इह भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते 'दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं-'तण्हाए छेअर्ण होइ'त्ति तृपःअभिष्वङ्गलक्षणायाः किं ?-'छेदनं भवति' व्यपगमो भवतीति गाथार्थः ॥ १०६७ ॥ अहविहं कम्मरयं बहुएहि भवेहिं संचि जम्हा । तवसंजमेण धुबह तम्हा तं भावओ तित्थं ॥ १०६८॥
व्याख्या-'अष्टविधम्' अष्टप्रकारं, किं ?-कर्मरजः' कमैव जीवानुरञ्जनाद्रजः कमरज इति, बहुभिर्भवैः सञ्चितं यस्मातपःसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः॥ १०६८॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहि सव्वेहिं । तिमु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥ १०६९ ॥
व्याख्या-दर्शनज्ञानचारित्रेषु 'नियुक्तं' नियोजितं 'जिनवरैः' तीर्थकृभिः 'सर्वैः' ऋषभादिभिरिति, यस्माच्चैत्यम्भूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः ॥ १०६९ ॥ उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा
____णामकरो १ ठवणकरो २ व्वकरो ३ खित्त ४ काल ५ भावकरो ।
एसो खलु करगस्स उ णिक्वेवो छविहो होइ ॥१०७०॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यकरमभिधित्सुराहगोमाहिसेट्टिपैसणं छगलीणंपि अकरा मुणेयव्वा । तत्तो अतणपलाले भुसकटंगीरपलले य॥१०७१॥ सिंउघरेजधौए बलिवद्दकए ऐ अचम्मे । चुल्लंगकरे अ भणिए अट्ठारसमाकरुपत्ती ॥ १०७२ ॥ व्याख्या-गोकरस्तथाभूतमेव तद्द्वारेण वा रूपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरो-भोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः, शेष प्रकटार्थमिति गाथाद्वयार्थः ॥ १०७११०७२ ॥ उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराहखितमि जमि खित्ते काले जो जंमि होइ कालंमि । दुविहो अ होइ भावे पसत्थु तह अप्पसत्यो अ॥१०७३॥
व्याख्या-क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति-क्षेत्रकरी यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, द्वैविध्यमेव दर्शयति-प्रशस्तस्तथाऽप्रशस्तचेति गाथार्थः ॥ १०७३ ॥ तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भावादप्रशस्तमेवादावभिधित्सुराहकलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ । एसो उ अप्पसत्थो एवमाई मुणेयव्वो ॥ १०७४ ॥
व्याख्या-आह-उक्त प्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थ, तत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावंतः, तत्करणशीलः कलहकर इति एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाड्मनोभिस्ताडनादिगहनं डमरं, समाधान-समाधिः स्वास्थ्य न समाधिरसमाधिः-अस्वास्थ्यनिवन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानितिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया न तु व्यक्त्यपेक्षयेति, अत एवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः ॥ १०७४ ।। साम्प्रतं प्रशस्तभावकरमभिधातुकाम आहअत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ। अभयकर निव्वुइकरो कुलगर तित्थंकरंतकरो॥१०७५
व्याख्या-तत्रौघत एव विद्यादिरर्थः, उक्तं च-'विद्याऽपूर्व धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्तविचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित् , कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशः-पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ॥ १०७५ ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनायाऽऽह
अनादिभवाभ्यासादासेवनमप्रशस्तस्यैवादी भवति, प्रशस्तस्य तु पश्चादेवेति २ यतोऽसाविति ३ व्यक्तिसमुदायरूपत्वात् जातेस्तस्याः प्राणद्देशात भत्र व्यक्त्यपेक्षयेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org