________________
आवश्यकहारिभद्रीया प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्रेत्यर्थः, तत्राग्निद्रव्योद्योतः घटाघुद्योतनेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरैभावात्सकलवस्तुधर्मानुद्योतनाच्च, न हि धर्मास्तिकायादयः सदसन्नित्यानित्यायनन्तधर्मात्मकस्य च वस्तुनः सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदम्-अग्निद्रव्योद्योतः, तथा चन्द्रः सूर्यो मणिविद्युदिति, तत्र मणिः-चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः ॥ १०५९ ॥ नाणं भावुजोओ जह भणियं सवभावदंसीहिं । तस्स उवओगकरणे भावुजोअं विआणाहि ॥ १०६० ॥ - व्याख्या-ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्ज्ञानं भावोद्योतः, घटाघुद्योतनेन तद्गतायाः सम्यक्प्रतिपत्तेविश्वप्रतिपत्तेश्च भावात् , तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम् , अत आह-यथा भणितं सर्वभावदर्शिभिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यदणितं सर्वभावदर्शिभिरिति, तदपि नाविशेषेणोद्योतः. किन्त तस्य-ज्ञानस्योपयोगकरणे सति, किं, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ॥ १०६० ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाहलोगस्सुज्जोअगरा दवुजोएण न हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरां चउव्वीसं ॥ १०६१ ॥
* न ह्यग्निः स्वं जानाति नवा नियमेन सम्यक्प्रतिपतिदष्टणां सर्वपर्यायाणमप्रकाशात् स्थूलद्रव्यपर्यायप्रकाशनाद्वा व्याख्या-लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामटकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावो. द्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोकप्रकाशकवचनप्रदीपापेक्षया च शेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्त 'भवन्ति' न तु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवादिति,चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ग्याप्रतिपादनार्थमिति गाथार्थः॥१०६१॥ उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽह
खुजोउज्जोओ पगासई परिमियंमि खित्तमि । भावुजोउजोओ लोगालोग पगासेइ ॥ १०६२ ॥ व्याख्या-द्रव्योद्योतोद्योतः-द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, 'भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम्, अयं गाथार्थः ॥ १०६२ ।। साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्म प्रतिपादयन्नाहदुह दवभावधम्मो दवे ब्वस्स दवमेवाहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥१०६३ ॥
व्याख्या-धर्मो द्विविधः-द्रव्यधर्मों भावधर्मश्च, 'दबे दबस्स दवमेवऽहव'त्ति द्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वा धमा द्रव्यधर्मः धर्मास्तिकायः, 'तित्ताइसहावो वत्ति तिक्तादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्यादिधर्मः 'स्त्री'ति स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केपाश्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ॥ १०६३॥ दुह होइ भावधम्मो सुअचरणे आ सुअंमि सज्झाओ। चरणमिसमणधम्मो खंतीमाई भवे दसहा ॥१०६४॥
व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे य'त्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओ'त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाई भवे दसह'त्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः ॥ १०६४ ॥ उक्को धर्मः, साम्प्रतं तीर्थनिरूपणायाह
नाम ठवणातित्थं व्वत्तित्थं च भावतित्थं च । एककपि अ इत्तोऽणेगविहं होइ णायव्वं ॥ :०६५ ॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहदाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं ॥ १०६६ ॥ व्याख्या-इह द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशम
-बाह्यसन्तापस्तस्योपशमो यस्मिन तहाहोपशम 'तण्हाइछेअणं'ति तपः-पिपासायाश्छेदन, जलसङ्गातेन तदपनयनात्, 'मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैस्त्रिषु वाऽर्थेषु 'नियुक्तं' निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org