SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया 104 चोरा गामवत्थं विणिग्या एगो बेंति घाएह । जं पेच्छ सबं दुपयं च चउप्पयं वावि ॥ ७ ॥ बिइओ माणुस पुरिसे य तइओ साउहे चउत्थे य । पंचमओ जुज्झते छडो पुण तरिथमं भणइ ॥ ८ ॥ एकं ता हरह धणं बीयं मारेह मा कुह एवं । केवल हरह धणंती उवसंहारो इमो तेसिं ॥ ९ ॥ सधे मारेहत्ती वट्टइ सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमी सुक्कलेसा ॥ १० ॥ आदिल्लतिणि एत्थं अपसत्था उवरिमा पसत्था उ । अपसत्यासुं वट्टिय न वट्टियं जं पसत्थासुं ॥ ११ ॥ एसऽइयारो एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं घट्टामी जं भणियं पुणो न सेवेमि ॥ १२ ॥ प्रतिक्रमामि सप्तभिर्भयस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि - इहलोकादीनि, तथा वाद सग्रहणिकारः इहपरलोयादाणमक म्हाभाजीव मरणमसिलोए' सि अस्य गाथा कलस्य व्याख्या -' इहपरलोअ' त्ति इहलोकभयं परलोकभयं तत्र मनुष्यादिसजातीयादन्यस्मान्मनु १ नौरा ग्रामवधायें विनिर्गता एको ब्रवीति घातयत। यं पश्यत तं सर्वं द्विपदं च चतुष्पदं वापि ॥ ७ ॥ द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यमानान् षष्ठः पुनस्तत्रेदं भणति ॥ ८ ॥ एकं तावद्धरत धनं द्वितीयं मारयत मा कुरुतैवम् । केवलं हरत धनं उपसंहारोऽयं तस्य ॥ ९ ॥ सर्वान् मारयतेति वर्त्तते स कृष्ण लेश्यापरिणामः । एवं क्रमेण शेषाः यावश्चरमः शुललेश्यायाम् ॥ १० ॥ यथास्तिस्रोऽश्राप्रशस्ता उपरितनाः प्रशस्तास्तु । अप्रशस्तासु वृत्तं न वृत्तं प्रशस्तासु यत् ॥ १३ ॥ एषोऽतिचार एतासु भवति तस्माच्च प्रतिक्राभ्यामि । प्रतिकूलं बसें यद्भणितं पुनर्न सेवे ॥ १२ ॥ ष्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयान्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं - धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राज्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगो' त्ति अश्लाघाभयम् - अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्तत इति गाथाशकलाक्षरार्थः ॥ मदः - मान [ग्रन्थाग्रं० १६५०० ] स्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि १, अत आह सङ्ग्रहणिकारः जाईंकुलबहरूने तथईसरिए सुए लाहे ॥ १ ॥ अस्य व्याख्या- कश्चिन्नरेन्द्रादिः प्रत्रजितो जातिमदं करोति, एवं कुलबल रूपतपऐश्वर्य श्रुतला भेष्वपि योज्यमिति ॥ नवभिर्ब्रह्मचर्यगुतिभिः, शेषं पूर्ववत्, ताश्चेमाः - वसेहिकेहनिसिर्जिदिर्ये कुटुंतैरपुर्वकीलियपैणीए । अइमायाहारविभूसणा य नव बंभगुती ॥ १ ॥ व्याख्या - ब्रह्मचारिणा तद्गुत्यनुपालनपरेण न स्त्रीपशु पण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसकानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं, स्निग्धमित्यर्थः, नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः ॥ प्राग्निरूपितशब्दार्थस्तस्य धर्मः - क्षान्त्यादिलक्षणस्तस्मिन् दशविधे- दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकारः श्रमणः खंती य मद्दवजव मुत्ती तव संजमे व बोदधे । सच्चं सोयं आकिंचणं च बंभं च जहधम्मो ॥ १ ॥ क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, 'चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः तथा ऋजुभाव आर्जवं - मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्नवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयमं प्रति निरुपलेपता, आकिवन्यं च, कनकादिरहिततेत्यर्थः, ब्रह्मवर्य च एष यतिधर्मः, अयं गाथाक्षरार्थः ॥ अन्ये त्वेवं वदन्ति - खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेत्र । संयम चियागऽकिंचण बोद्धवे बंभचेरे य ॥ १ ॥ तत्र लाघत्रम् - अप्रतिबद्धता, त्याग:संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डको तानामपी होपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ॥ एकादशभिरुपासकप्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः - श्रावकास्तेषां प्रतिमा:- प्रतिज्ञा दर्शनादिगुयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेति 1 दंसणवयसामाइय पोसह पडिमा अबंभ सच्चिते । आरंभपेसविजए समणभूए य ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy