________________
॥८६॥
मावश्यक हारिभद्रीपतिः भासा हत्थी गावो गहिआई रजसंगहनिमित्तं । धितूण एवमाई चविहं संगहं कुणइ ॥ २०१॥ गमनिका-अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तनिमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजनं पूर्ववत् , पाठान्तरं वा 'चउविहं संगहं कासी' इति अयं गाथार्थः॥२०१॥ स चायम्
उग्गा १ भोगा २रायण्ण ३ खत्तिा ४ संगहो भवे चउहा।
आरक्खि १ गुरु २ वयंसा ३ सेसा जे खत्तिआ ४ ते उ ॥ २०२॥ गमनिका-उमा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेञ्चतुर्धा, एतेषामेव यथासंख्य स्वरूपमाहआरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोग वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रिया: 'ते तु' तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥२०२॥ इदानी लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनेमाह
आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५। लेहे ६ गणिए ७ अ रूवे.८ अ, लक्खणे ९ माण १० पोअए ११ ॥ २०३ ॥
* भोजाः +पादनायाह.
यवहारे १२ नीह १३ जुडे १४ अ, ईसत्थे १५ अ उवासणा १६ । तिगिरछा १७ अस्थसत्थे १८ अ, बंधे १९ घाए २० अ मारणा २१ ॥२०४॥ जण्णू २२ सव २३ समवाए २४, मंगले २५ कोउगे २६ इअ। वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य । २०५॥ चोलो ३१ वण ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ ।
झावणा ३६ थूभ ३७ सद्दे ३८ अ, छेलावणय ३९ पुछण्णा ४० ॥२०६ ॥ एताश्चतस्रोऽपि द्वारगाथा:, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र 'आहार' इति आहारविषयो विधिवक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः कथं वा पकाहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तश्चानौ उत्पन्ने संजातमिति, 'च' समु बये 'मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एष प्रवृत्तः, '' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, 'लेख' इति लेखनं लेख:-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तञ्च जिनेन ब्राह्या दक्षिणकरेण प्रदर्शितमिति, गणित
___ * लवणयण. विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं-संख्यानं, तश्च भगवता सुन्दर्या वामकरणोपदिष्टमिति, 'च.' समुच्चये, रूप-काष्ठकर्मादि, तञ्च भगवता भरतस्य कथितमिति, '' पूर्ववत्, 'लक्षणं' पुरुषलक्षणादि, तच्च भगवत माहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्था प्रोतं वा अनयोनिपोतयोर्विधिर्वाच्यः, तत्र मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानमुकम्-'दो असतीओ पसती' इत्यादि,रसमानं तु 'चउसठ्ठीया बत्तीसिआ' एवमादि १, उन्मानं-येनोन्मीयते यद्वोन्मीयते तद्यथा-कर्ष इत्यादि २, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि ३, गणिर्म-यद्गण्यते एकादिसंख्ययेति ४, प्रतिमानं-गुञ्जादि ५, एतत्सर्व तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः-मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः । द्वितीयगाथागमनिका-'ववहारे' त्ति व्यवहारविषयो विधिर्वाच्या, राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावोपगमात्, ‘णीतित्ति' नीती विधिर्वक्तव्यः, नीतिः-हकारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहुयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं-धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्या, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र योज्यं, यथा-'कयरे आगच्छति दित्त
* प्रतिपादमा.. +सभाकोपग..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org