________________
मावश्यक-हारिभद्रीयवृत्तिः देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान् , अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति ॥१९४ ॥ अमुमेवार्थमुपसंहरन्नाहभोगसमत्थं नाउं बरकम्मं तस्स कासि देविंदो। दुण्डं वरमहिलाणं बहुकम्म कासि देवीओ ॥ १९५॥
गमनिका-भोगसमर्थ ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः परमहिलयोर्वधूकर्म कृतवत्यो देख्य इति गाथार्थः, भावार्थस्तूक्त एव ॥ १९५ ॥ इदानीमपत्यद्वारमभिधित्सुराहछप्पुब्वसयसहस्सा पुचि जायस्स जिणवरिंदस्स । तो भरहवंमिसुंदरिबाहुबली चेव जायाई ॥१९६ ॥ निगदसिद्धैवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतम्राझीमिथुनकं जातं, तथा सुबाहुमहापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ १९६ ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकार:देवी सुमंगलाए भरहो भी य मिहुणयं जायं । देवीइ सुनंदाए बाहुबली सुंदरी व ॥४॥ (मू० भा०)
सुगमत्वान्न विप्रियते । आह-किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, अउणापण्णं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमहकमणे निवेअणं उसमसामिस्स ॥१९७ ॥
गमनिका-एकोनपश्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपिताना हकारादिप्रभृतीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने' आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः ॥ १९७ ॥ एवं निवेदिते सति भगवानाहराया करेइ दंडं सिढे ते विति अम्हवि स होउ । मग्गह य कुलगरंसोअ इ उसभो य मेराया ॥ १९८ ॥ ___गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, सच अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति-अस्माकमपि 'स' राजा भवतु, वर्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थों वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति-उक्तवन्तः, भगवानाह-यद्येवं 'मग्गह य कुलगरं' ति याचध्वं कुलकरं राजानं, स च कुलकरस्ताचितः सन् 'बेईत्ति पूर्वयदुक्तवान्-ऋषभो 'भै' भवतां राजेति गाथार्थः ॥ १९८ ॥ ततश्च ते मिथुनका राज्याभिषेकनिवर्त्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागत्याभिषेकं कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाहआभोएउं सक्को उवागओ तस्स कुणइ अभिसेअं । मउडाइअलंकारं नरिंदजोग्गं च से कुणइ ॥ १९९ ॥
गमनिका-'आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शो' देवराज उपागतः, 'तस्य' भगवतः करोति 'अभिषेक' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः संबन्धः, नरेन्द्रयोग्यं च 'से' तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतुं तस्स कासि अभिसेयं । मउडाइअलंकारं नरेंदजोग्गं च से कासी ॥१॥" भावार्थः पूर्ववदेवेति गाथार्थः ॥ १९९ ॥ अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताब्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे । अमुमेवार्थमुपसंहरनाह-अत्रान्तरे भिसिणीपत्तेहिअरे उदयं चित्तुं छुहंति पाएम। साह विणीआ पुरिसा विणीअनयरी अह निविट्ठा ॥२०॥
गमनिका-बिसिनीपौरितरे उदकं गृहीत्वा 'छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोडि. भिहितवान्-साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ २००॥ गतमभिषेकद्वारम्, इदानी संग्रह द्वाराभिधित्सयाऽऽह
* विनीता.. +भिसिनी.. देिवराडमि०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org