________________
11 20 11
मावश्यक हारिभद्रीयवृत्तिः
वे इत्यादि' 'उवासति' उपासना - नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीनां वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा सदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, 'अत्थसत्थे य' त्ति अर्थशास्त्र, 'बंधे घाते य मारणे ति' बन्धो- निगडादिजन्यः घातो- दण्डादिताडना जीविताश्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । तृतीयगाथागमनिका - एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः- नागादिपूजारूपा उत्सवाः-शत्रोत्सवादयः समवायाः - गोष्ठयादिमेलकाः, एते तदा प्रवृत्ताः, मङ्ग लानि - स्वस्तिक सिद्धार्थ कादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवतः प्राग् देवैः कृतानि, पुनस्तदैव लोके प्रवृत्तानि, तथा 'वस्त्रं' चीनांशुकादि 'गन्धः ' कोष्ठपुटादिलक्षणः 'माल्यं' पुष्पदाम 'अलङ्कारः' केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । चतुर्थगाथागमनिका - तत्र 'चूलेति' बालानां चूडाकर्म, तेषामेव कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाशं नयनमुपनयनं, 'वीवाहः' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः ( ३५०० ), दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोके च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्ताः, शब्दश्च रुदितशब्दो भगवत्येवापवर्ग गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, सा इङ्क्षिणिकादिलक्षणा इङ्क्षिणिकाः कर्णमूले त्रण्टिकां चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः ॥ २०३ - २०४२०५-२०६ ॥ इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह
आसी अ कंदहारा मूलाहारा य पत्तहारा य ।
पुष्पफलभोइणोऽवि अ जइआ किर कुलगरो उसभो ॥ ५ ॥ ( मू० भा० )
गमनिका—आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा १, यदा किल कुलकर ऋषभः । भावार्थ: स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन्, किलशब्दस्तु परोक्षाघाऽऽगमवाद संसूचक इति गाथार्थः ॥ तथा आसी अ इक्खुभोई इक्खागा तेण खसिआ हुति ।
सणसत्तरसं घण्णं आमं ओमं च भुंजीआ ॥ ६ ॥ ( मू० भा० )
गमनिका - आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदर्श 'धान्यं' शाल्यादि 'आमं' अपक्कं 'ओमं' न्यूनं व 'मुंजीआ' इति भुक्तवन्त इति गाथार्थः ॥ ६ ॥ तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाँश्चाह - हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकृत् -
ओमंपाहारंता अजीरमाणंमि ते जिणमुविंति । हत्थेहिं घंसिऊणं आहारेहन्ति ते भणिआ ॥ ७ ॥ ( मू० भा० ) गमनिका — ओममप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिनं' प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्त्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् :
आसी अ पाणिघंसी तिम्मिअतंदुलपवालपुडभोई ।
हत्थतलपुडाहारा जइआ किर कुलकरो उसहो ॥ ८ ॥ ( मू० भा० )
व्याख्या - आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां धष्टुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति-ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्यन्ते । पुनः कियताऽपि कालेन गच्छता अर्जरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्, हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति यदा किल कुलकरो कृषिभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः ॥ पुनरभिहितप्रकारव्यादिसंयोगैराहारितवन्तः, तद्यथा- पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त्त धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्त्त धृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्थापि
* घृष्टुं + भजीरण० श्रषभः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org