SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - --- भावश्यक-हारिभद्रीयवृत्तिः गमनिका-दावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ दीपकुमारेषु एको नागेषु उपपन्ना, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः॥१६५॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधिरसुराहहत्थी छच्चित्थीओ नागकुमारेसु हुँति उववण्णा । एगा सिद्धिं पत्ता मरुदेवी नामिणो पत्ती ॥१६॥ गमनिका-हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति-एक एष हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः ॥ १६६ ॥ उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाह___ हकारे मकारे षिकारे चेच दंडनीईओ। बुच्छं तासि विसेसं जहम आणुपुथ्वीए ॥१७॥ गमनिका-हकारः मक्कारः धिकारश्चैवं दण्डनीतयो वर्त्तन्ते, वक्ष्ये तासां विशेष यथाक्रम-या यस्येति, आनुपूा-परिपाट्येति गाथार्थः॥ १६७॥ पढमषीयाण पढमा तइयचउत्थाण अभिनवा पीया।पंचमछहस्स य सत्समस्स तइया अभिनवा उ ॥१६८॥ गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हकाराख्या, तृतीयचतुर्थयोरभिनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोऽभिनवा सेति, सौ वं. जहितीयेति. पञ्चमषष्ठयोः, सप्तमस्य तृतीयेव अभिनवा-धिकाराख्या, एताच तिम्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः ॥ १६८॥ सेसा उ दंडनीई मागवगनिहीओ होति भरहस्स ।उसभस्स गिहावासे असको आसि आहारो ॥१६९॥ गमनिका-शेपा तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थ, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाद्देवाः देवकुरूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतवन्त इति गाथार्थः ॥ १६९ ॥ इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह परिभासणा उ पढमा मंडलिबंध मि होइ बीया उ । चारग छविछेआई भरहस्स चउबिहा नीई ॥३॥ (भाष्यम् ) गमनिका-यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य'सेयं-परिभाषणातु प्रथमा,मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोडभिधानं, तथा मण्डलीबन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं * भाष्यकारेण व्याख्यानादस्याः मूलस्वं तन्त्र पाश्चात्यभागकल्पना निर्युक्तेः. मूलभाष्य. +बंधोमि । मूलभाष्यगाथेति नियुक्तिपुस्तके। भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥ ३ ॥ अथ कोऽयं भरत इत्याह-ऋषभनाथपुत्रः,अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा पति पादितः कुलकरवंशः,इदानीं प्राकुसूचितेश्वाकुवंशःप्रतिपाद्यते-सचऋषभनाथप्रभव इत्यतस्तद्वक्तव्यता नाभी विणीअभूमी मरुदेवी उत्तरा य साढा य । राया य वइरणाहो विमाणसव्वट्ठसिद्धाओ ॥१७॥ गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः कार्यः, स चेत्थम्-नाभिरिति नाभि म कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद् , मरुदेवीति तस्य भार्या, राजा चप्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धवा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः ॥१७०॥ इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहधणसत्यवाह घोसण जइगमण अडविवासठाणं च । बहुवोलीणे वासे चिंता घयदाणमासि तया ॥ १७१॥ * प्रतिपादं. + धणमिहुणसुरमहम्बलललियंगयवहरजंधमिहुणे य । सोहम्मविनमम चकी सबह उसमे ॥ ( गाथेयं भव्याख्याता निर्युकी) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002521
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy